________________
योगविंशिका सूत्र
-
Jain Education International
२-३
ठाणुन्नत्थालंबणरहिओ तंतम्मि पंचहा एसो ।
दुगमित्थ कम्मजोगो, तहा तियं नाणजोगो उ ॥ २ ॥ 'ठाणुन्नत्थे' त्यादि । स्थीयतेऽनेनेति स्थानं आसनविशेषरूपं कायोत्सर्गपर्यङ्कबन्धपद्मासनादि सकलशास्त्रप्रसिद्धम्, ऊर्णः-शब्दः स च क्रियादावुच्चार्यमाणसूत्रवर्णलक्षणः, अर्थः- शब्दाभिधेयव्यवसायः, आलम्बनं बाह्यप्रतिमादिविषयध्यानम् एते चत्वारो भेदाः, 'रहित: ' रूपिद्रव्यालम्बनरहितो निर्विकल्पचिन्मात्रसमाधिरूप इत्येवं 'एषः ' योगः पञ्चविधः 'तन्त्रे' योगप्रधानशास्त्रे, प्रतिपादित इति शेषः, उक्तं च- " स्थानोर्णार्थालम्बनतदन्ययोगपरिभावनं सम्यक् । परतत्त्वयोजनमलं, योगाभ्यास इति समयविदः ॥ " ( षो. १३ - ४ ) इति । स्थानादिषु योगत्वं च “मोक्षकारणीभूतात्मव्यापारत्वं योगत्वम्" इति योगलक्षणयोगादनुपचरितमेव ।
यत्तु " यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि योगस्य " (पातं. यो. सू. २- २९) इति योगाङ्गत्वेन योगरूपता स्थानादिषु हेतुफलभावेनोपचारादभिधीयत इति षोडशकवृत्तावुक्तं तत् "चित्तवृत्तिनिरोधो योग: " (पा. यो. सू. १-२ ) इति योगलक्षणाभिप्रायेणेति ध्येयम् । अत्र स्थानादिषु 'द्वयं' स्थानोर्णलक्षणं कर्मयोग एव, स्थानस्य साक्षादूर्णस्याप्युच्चार्यमाणस्यैव ग्रहणाद् उच्चारणांशे क्रियारूपत्वात् । तथा 'त्रयं' अर्थालम्बननिरालम्बनलक्षणं ज्ञानयोगः, 'तुः ' एवकारार्थ इति ज्ञानयोग एव, अर्थादीनां साक्षाद् ज्ञानरूपत्वात् ॥ २ ॥
एष कर्मयोगो ज्ञानयोगो वा कस्य भवतीति स्वामिचिन्तायामाह -
.
देसे सव्वे य तहा, नियमेणेसो चरित्तिणो होइ । इयरस्स बीयमित्तं इत्तु च्चिय केइ इच्छंति ॥ ३ ॥ 'देसे सव्वे य' त्ति । सप्तम्याः पञ्चम्यर्थत्वाद्देशतस्तथा सर्वतश्च चारित्रिण एव 'एष: ' प्रागुक्तः स्थानादिरूपो योगः 'नियमेन' इतरव्यवच्छेदलक्षणेन निश्चयेन भवति, क्रियारूपस्य वाऽस्य चारित्रमोहनीयक्षयोपशमनान्तरीयकत्वात्, अत एवाध्यात्मादियोगप्रवृत्तिरपि चारित्रप्राप्तिमारभ्यैव ग्रन्थकृता योगबिन्दौ प्ररूपिता, तथाहि "देशादिभेदतश्चित्रमिदं
For Personal & Private Use Only
www.jainelibrary.org