________________
३०२ योगबिन्दु सूत्र : ५१४-५१९-५२०-५२१-५२२ स्वप्नायमानावस्थायामपि तस्याप्रतिभासात्, सुतरामस्यासत्त्वमेवेत्यर्थः ॥५१८॥
यदा नार्थान्तरं तत्त्वं, विद्यते किञ्चिदात्मनाम् ।
मालिन्यकारि तत्त्वेन, न तदा बन्धसम्भवः ॥५१९॥ तथा-यदा नार्थान्तरं-भिन्नमित्यर्थः तत्त्वं-कर्मलक्षणं विद्यते किञ्चिदात्मनांजीवानां मालिन्यकारि मलीमसभावविधायि तत्त्वेनाकल्पितेन रूपेण, न तदा बन्धसम्भवः बन्धहेतोः कस्यचिदभावाद् बौद्धानाम् ॥ ५१९ ॥ ततः
असत्यस्मिन् कुतो मुक्तिबन्धाभावनिबन्धना । ''
मुक्तमुक्तिर्न यन्याय्या, भावेऽस्यातिप्रसङ्गिता ॥ ५२०॥ असत्यस्मिन् बन्धे, कुतो मुक्तिबन्धाभावनिबन्धना प्राक्संवृत्तबन्धोपरमनिमित्ता । एतदपि कुत इत्याह 'मुक्तमुक्तिः' मुक्तस्य सतो मुक्तिः, न यत् यस्मात् न्याय्या, भावे मुक्तेः अस्य मुक्तस्य अतिप्रसङ्गिताअतिव्याप्तिरूपेति ॥
कल्पितादन्यतो बन्धो, न जातु स्यादकल्पितः ।
'कल्पितश्चेत्ततश्चिन्त्यो, ननु मुक्तिरकल्पिता ॥ ५२१॥ तथा-कल्पितादुपचरितात् वासनादेः, बन्धो न जातु-कदाचित् स्यादकल्पितः कल्पितश्चेत्ततो बन्धः, 'चिन्त्यो नास्त्येवेत्यर्थः, ननु इत्यक्षमायाम्, मुक्तिरकल्पिता मुख्यबन्धपूर्वकत्वात्तस्याः ॥ ५२१॥ तथा
नान्यतोऽपि तथाभावाहते तेषां भवादिकम् । __ ततः किं केवलानां तु, ननु हेतुसमत्वतः ॥ ५२२॥
न नैव अन्यतोऽपि कर्मणोऽपि सकाशात् तथाभावात्स्वयमेव भवादिपरिणामात् ऋते-विना तेषामात्मनां नैयायिकादिमते 'भवादिकं' भवो भववतामपरपर्यायाश्च स्युरिति । एवं तथाभावाद्भवादिके प्रसाधिते परः प्राहततः तथाभावेन भवादिभावात् किं-कस्मात् केवलानां तु-एकाकिनामपि पुरुषाद्वैतवादिमते भवादिकं 'न स्यात्' इत्यनुवर्तते, ननु इत्यक्षमायाम् । कुत इत्याह हेतुसमत्वतः-हेतोस्तथाभावलक्षणस्य समत्वतः-तुल्यत्वात् । यथा हि
१. कल्पिता च ततश्चिन्त्या-AB.C; २. कल्पिता च ततो-AB.C; ३. चिन्त्या-AB.C:
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org