________________
३०३
योगबिन्दु सूत्र : ५२२-५२३-५२४-५२५ सत्यप्यन्यस्मिन्नात्मनां तथाभावमन्तरेण न भवादिकमिति तथाभाव एव भवद्भिः प्रधानो हेतुः कल्प्यते, एवमन्य(न्या) भावेऽपि केवलानामप्यात्मनां पुरुषाद्वैतवादिमते सौगतमते वा तथाभावादेव भवादिकं भविष्यतीति ॥५२२ ॥ अत्र समाधिः
मुक्तस्येव तथाभावकल्पना यन्निरर्थका ।
स्यादस्यां प्रभवन्त्यां तु, बीजादेवाकुरोदयः ॥५२३॥ मुक्तस्येव-जन्तुविशेषस्यान्यसंयोगाभावे तथाभावकल्पना' भवादिनिबन्धना क्रियमाणापि यद्-यस्मात् निरर्थका-निष्फला भा(भ)वादिफलाभावात्, स्याद्-भवेत् । एतदेव प्रतिवस्तूपमया भावयति अस्यां-तथाभावकल्पनायां, प्रभवन्त्यां तु-प्रभवन्त्यामपि-समर्थायामपि 'बीजादेव' मुद्गादेन तु यतः कुतश्चिदुपलादेः, अङ्कुरोदयः, यथा हि तथाभावे कल्प्यमानेऽपि न बीजमन्तरेणाकुरोदयः तथान्याभावे तथाभावकल्पनायामपि न भव इति । तस्मादन्यसंयोग एव तथाभावकल्पना फलवती स्यादिति ॥५२३ ॥ अथोपसंहरनाह
एवमाद्यत्र शास्त्रज्ञैस्तत्त्वतः स्वहितोद्यतैः ।
माध्यस्थ्यमवलम्ब्योच्चैरालोच्यं स्वयमेव तु ॥५२४॥ "एवमादि' गोचरश्च स्वरूपं च फलं चेत्यादि निरूपितस्वरूपमेव अत्र योगविचारे शास्त्रज्ञैः-पुम्भिः तत्त्वतो-निश्चयवृत्त्या स्वहितोद्यतैः-स्वकल्याणाधानाधीनधीभिः माध्यस्थ्यमुक्तरूपं अवलम्ब्योच्चैरलं आलोच्यं-मीमांसनीयं, स्वयमेव त्वात्मनैव ॥५.२४॥ कुतः ? यतः
आत्मीयः परकीयो वा, कः सिद्धान्तो विपश्चिताम् ।
दृष्टेष्टाबाधितो यस्तु, युक्तस्तस्य परिग्रहः ॥ ५२५॥ आत्मीयो-जैनादिः, परकीयो वा शैवसौगतादिः को-न कश्चिदित्यर्थः सिद्धान्तो विपश्चितां-विदुषां, दृष्टेष्टाबाधितो-दृष्टेष्टाभ्यां वस्तुस्वरूपाभ्यां अबाधितोऽविरुद्धः, यस्तु-यः पुनस्तयोर्मध्ये, युक्तो-न्याय्यः तस्य परिग्रहोऽङ्गीकारः, तस्यैव 'फलसिद्ध्यवञ्चकत्वात् ॥५२५ ॥अथास्य योगशास्त्रविरचनस्य
१. निबन्धनभूता क्रिया-AB.C; २. फलसिद्धाववञ्चकत्वात्-AB.C;
૨૨
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org