________________
योगबिन्दु सूत्र : ५१६-५१७-५१८
३०१
हि भेदकस्य वायोर्भावे जायन्ते, न 'चाद्वैतेनैतद् भेदकत्वमस्तीति ॥ ५१६ ॥
किञ्चाद्वैतवादिनाम्—
सदाद्यमत्र हेतुः स्यात्, तात्त्विके भेद एव हि । प्रागभावादिसंसिद्धेर्न सर्वथाऽन्यथा त्रयम् ॥५१७॥ सत्सत्त्वमाद्यं - शुद्धसङ्ग्रहाभिमतं सर्वं जगदशेषविशेषरहितं सत्त्वमात्रमेवेत्यर्थः अत्र हेतुः हेतुत्रयं नाम द्वे भिद्यमाने वस्तुनी तृतीयं च तद्भेदकमित्यस्य त्रयस्याभावे पुनः स्यात् । कुतः स्यादित्याह तात्त्विके- अनुपचरिते भेद एव हि सति, प्रागभावादिसंसिद्धे :- प्रागभावः प्रध्वंसाभाव इतरेतराभावोऽत्यन्ताभाव ेश्चेत्यस्यैवा - भावचतुष्टयस्यासत्त्वरूपत्वेन सत्त्वप्रतिपन्थिनः संसिद्धेः । विपक्षे बाधामाह न-नैव सर्वथाऽन्यथा प्रागभावादिसंसिद्धिमन्तरेण त्रयं उक्तलक्षणम् ।
प्रागभावादिलक्षणं चेत्थमवसेयम् । “ क्षीरे दध्यादि यन्नास्ति, प्रागभावः स कथ्यते । नास्तिता पयसो दध्नि प्रध्वंसाभावलक्षणम् ॥१ ॥ गवि योऽश्वाद्यभावश्च, सोऽन्योन्याभाव उच्यते । शिरसोऽवयवा भिन्ना, वृद्धिकाठिन्यवर्जिताः ॥२ ॥ शशशृङ्गादिरूपेण, सोऽत्यन्ताभाव उच्यते ॥" (श्री. वा. अभावपरिच्छेदे) यदि हि प्रागभावाद्यपेक्षकमुक्तरूपं त्रयं नाभ्युपगम्यते, तदा सर्वं जगत्सत्त्वसामान्यमात्रमेव स्यात् । ततो यत्समुद्रोर्मिसमत्वमात्मांशानां परैः परिकल्प्यते तत्सर्वथा निरवकाशमेव स्यात् । तत्रापि तदभिप्रायेण समुद्रोर्मिवायुरूपस्य त्रितयस्याभावादिति ॥ ५१७ ॥ तथा
सत्त्वाद्यभेद एकान्ताद् यदि तद्भेददर्शनम् । भिन्नार्थमसदेवेति, तद्वदद्वैतदर्शनम् ॥५१८ ॥
'सत्त्वाद्यभेदे' सत्त्वस्यादिशब्दात्सत्त्व 'विशेषाणामभेदेऽनानात्वे आद्ये सत्त्वमात्र एवेत्यर्थ: एकान्ताद्यदि भवद्भिरभ्युपगम्यते, तद्भेददर्शनं सत्त्वादिभेदप्रतीतिरूपं भिन्नार्थं भिन्नालम्बनं, असदेवाऽविद्यमानं द्विचन्द्रादिभ्रान्तितुल्यत्वात्, इत्येवम् । तद्वद्-भेददर्शनमिव 'अद्वैतदर्शनं' तत्प्रतिपन्नमसदेव
१. चाद्वैते तद्भेदक - A.B. C; २. चेत्यभावचतुष्टय - C; ३. विशेषाणां चाभेदे - A.B.C; ४.
आद्यसत्त्व - A.B.C;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org