________________
३०० __ योगबिन्दु सूत्र : ५१३-५१४-५१५-५१६ _____ यथेह-जगति पुरुषाद्वैते "पुरुष एवेदं ग्निं सर्वं यद् भूतं यच्च भाव्यम्" इत्यादिवेदवचनाद्वेदान्तिकप्रतिपत्रे, बद्धमुक्तयोरविशेषादनानात्वात् वान्ध्येयभेदोपवर्णनकल्पं इत्यनुवर्तते । तथा तदन्यस्य ज्ञात(न)रूपस्य पुरुषव्यतिरेकिण: कर्मणोऽभावादेव बौद्धमते, तद्वैतेऽपि-पुरुषार्थलक्षणे निरूप्यतामिति । अत्रापि बद्धमुक्ताऽविशेष इत्ययमेव हेतुः ॥५१३॥ अथैतदेव मतद्वयं क्रमेण विशेषतो दूषयन्नाह-.. .
अंशावतार एकस्य, कुत एकत्वहानितः ।
निरंश एक इत्युक्तः, स चाद्वैतनिबन्धनम् ॥५१४॥ 'अंशावतार' इहावयवानामवतरणरूप: एकस्य-परमब्रह्मणः सम्बन्धिनाम्, कुत:-कस्मात् न कुतोऽपीत्यर्थः, एकत्वहानित:-एकरूपताविनाशाद् ब्रह्मणः । एतदपि कथमित्याह 'निरंशः'-निरवयवः एक इत्युक्तः स च-स "पुनरंशक: 'अद्वैतनिबन्धनम्', एकस्य निरंशस्याद्वैतत्वात् ॥ ५१४॥ तथा
मुक्तांशत्वे विकारित्वमंशानां नोपपद्यते ।
तेषां चेहाऽविकारित्वे, सत्रीत्या मुक्ततांशिनः ॥५१५॥ मुक्तांशत्वे-मुक्तरूपपरमब्रह्मावयवत्वे विकारित्वं-कामक्रोधादिदोषत्वं अंशानामिहावतीर्णानां 'नोपपद्यते, तदभिन्नत्वात् । तेषां च-तेषां पुनरंशानामिहावतीर्णानां सन्नीत्या मुक्ततांशिनः-परमब्रह्मणोऽभिन्नत्वादेव ॥५१५ ॥ ___अथ ननु तेंऽशास्ततोऽशिनो भिन्ना अभिन्ना वा वर्तन्त इति पर्यनुयुक्तस्य यदुत्तरं ब्रह्मवादिनस्तन्निरस्यन्नाह
समुद्रोर्मिसमत्वं च, यदंशानां प्रकल्प्यते ।
न हि तद्भेदकाभावे, सम्यग्युक्त्योपपद्यते ॥५१६॥ समुद्रोर्मिभिः समत्वं च, यथा हि समुद्रोर्मयो न समुद्रात्काश्चिद्भिन्नाःकिन्तु समुद्र एव ताः एवं परमब्रह्मणोऽप्यंशा इत्येवंरूपं पुनर्यदंशानां प्रकल्प्यते परैः न हि-नैव तत्समुद्रोर्मिसमत्वं भेदकाभावे सम्यग्युत्क्योपपद्यते । समुद्रोर्मयो
१. 'सर्व' इति पदं-AB.C प्रतिषु नास्ति; २. ज्ञानं रूपस्य-AB.C; ३. कस्मात् स्यात्AB.C; ४. पुनरनंश एकोऽद्वैत-B.C; ५. विकारित्वेनोपपद्यते-AB.C:
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org