________________
योगबिन्दु सूत्र : ५०८-५०९-५१०- ५११-५१२-५१३
पुत्रदारादिसंसारः, पुंसां सम्मूढचेतसाम् । विदुषां शास्त्रसंसारः, सद्योगरहितात्मनाम् ॥५०९ ॥ पुत्रदारादिसंसारो भवभ्रमणहेतुत्वात् पुंसां नृणां सम्मूढचेतसां तत्त्वज्ञानरहितधियाम् । विदुषां पण्डितानां शास्त्रसंसारः - शास्त्राण्येव संसारः कीदृशानामित्याह सद्योगरहितात्मनां शुद्धयोगाभ्यासवर्जितानाम् ॥ तस्मात्
कृतमत्र प्रसङ्गेन, प्रायेणोक्तं तु वाञ्छितम् । अनेनैवानुसारेण, विज्ञेयं शेषमन्यतः ॥५१० ॥
कृतमत्र - विचारे प्रसङ्गेन विस्तरेण प्रायेण - बाहुल्येन, उक्तं तु वाञ्छितं वक्तुमिष्टं योगस्वरूपं पुनः । अनेनैवानुसारेण अनयैव नीत्या विज्ञेयं शेषंयदिह नोक्तम्, अन्यतोऽन्यस्माद्योगशास्त्रात् ॥५१० ॥
एवं तु मूलशुद्धयेह, योगभेदोपवर्णनम् । चारुमात्रादिसत्पुत्रभेदव्यावर्णनोपमम् ॥५११ ॥
एवन्त्वस्मिंश्च परिणाम्यात्माभ्युपगमे सति मूलशुद्धया - गोचरादिशुद्धिरूपया इह-योगविचारे योगभेदोपवर्णनमध्यात्मादिभेदेन किमित्याह चारू जातिकुलशीलादिशुद्धौ यौ मात्रादि मातापितरौ ताभ्यां सकाशात्सन्तः सुन्दरा ये पुत्रस्य भेदा विशेषास्तेषां व्यावर्णनेनोपमा यस्य तत्तथा सर्वत्र कारणशुद्धिपूर्वकत्वात्कार्यशुद्धेरिति ॥५११॥
अन्यद्वान्ध्येयभेदोपवर्णनाकल्पमित्यतः ।
न मूलशुद्धयभावेन, भेदसाम्येऽपि वाचिके ॥५१२ ॥ अन्यदुक्तरूपाद्विलक्षणं योगभेदोपवर्णनं वान्ध्येयभेदोपवर्णनाकल्पं निर्विषयमित्यर्थः इत्यतो यस्माद्धेतोः न नैव तत् वस्तु इति गम्यते, 'मूलशुद्धयभावेन' - गोचरादिशुद्धिविरहेण भेदसाम्येऽप्यध्यात्मादिसंख्यारूपे वाचिके-वचनमात्रप्रतिबद्धे ॥ ५१२ ॥
यथेह पुरुषाद्वैते, बद्धमुक्ताऽविशेषतः । तदन्याऽभावनादेव, तद्द्वैतेऽपि निरूप्यताम् ॥५१३॥
२९९
१. द्रष्टव्यं योगसारप्राभृते ७/४४ -
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org