________________
२९८ योगबिन्दु सूत्र : ५०४-५०५-५०६-५०७-५०८ विरहितः 'सदानन्दः' सर्वकालं सदाऽऽनन्दो यस्येति विग्रहः, मुक्तौ-निवृत्तौ, आत्माऽवतिष्ठते-आस्ते ॥५०४॥
अस्यावाच्योऽयमानन्दः, कुमारीस्त्रीसुखं यथा । ।
अयोगी न विजानाति, सम्यग्जात्यन्धवद् घटम् ॥५०५॥ अस्य-मुक्तस्य अवाच्यो-वक्तुमशक्यः अयं-मुक्तिभाव्यानन्दः कुमारीस्त्रीसुखं यथा-यथा कुमार्या अद्याप्यप्राप्तपुरुषसम्भोगाया: स्त्रियाः सुखं पुरुषसम्भोगजन्यमन्ययाऽनुभूतरतसुखयाऽप्यप्रत्याय्यं 'प्रत्याययितुमशक्यमित्यर्थः । अत एवाह अयोगी-अकेवली न विजानाति सम्यग् जात्यन्धवद्घटम् ॥ ५०५ ॥
योगस्यैतत्फलं मुख्यमैकान्तिकमनुत्तरम् । .. .
आत्यन्तिकं परं ब्रह्म, योगविद्भिदाहृतम् ॥५०६॥ योगस्य-प्रपश्चितरूपस्य एतत्फलं-कार्यं मुख्यमनुपचरितं, ऐकान्तिकंएकान्तेनैव भवनस्वभावं, अनुत्तरं-सर्वफलातिशायि आत्यन्तिकमत्यन्तभवं किमित्याह परं ब्रह्म-सिद्धत्वलक्षणं, योगविद्भिः शास्त्रकारैः उदाहतम् ॥ ५०६॥ अथोपसंहरन्नाह
सद्गोचरादिसंशुद्धिरेषाऽऽलोच्येह धीधनैः ।
साध्वी चेत्प्रतिपत्तव्या, विद्वत्ताफलकाक्षिभिः ॥५०७॥ सद्गोचरादिसंशुद्धिरेषोक्तरूपा आलोच्या-विमृश्या इह-जने धीधनैः । साध्वी-सङ्गता चेद् यदि, प्रतिपत्तव्या-श्रद्धया कीदृशैरित्याह विद्वत्ताफलकाक्षिभिः-पुम्भिः ॥ ५०७॥ यतः
विद्वत्तायाः फलं नान्यत्, सद्योगाभ्यासतः परम् ।
तथा च शास्त्रसंसार उक्तो विमलबुद्धिभिः ॥५०८॥ विद्वत्तायाः फलं-पाण्डित्यस्य फलं नान्यत् कुतः सकाशादित्याह 'सद्योगाभ्यासतः' -गोचरादिशुद्धाद्योगाभ्यासात् परं-प्रकृष्टम् । एतत् समर्थनार्यवाह तथा च शास्त्रसंसार:-शास्त्राण्येव संसारः, उक्तः निरूपितः, विमलबुद्धिभिः निर्मलप्रज्ञैः ॥ ५०८॥ एतदेव दर्शयति
३. प्रत्यापयितु-AB.C;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org