________________
योगबिन्दु सूत्र : ५००-५०१-५०२-५०३-५०४
न युक्तं, भावाभावरूपत्वादात्मन इति ॥ ५०० ॥ परिणामित्व एव स्वभावनिवृत्तिरिति दृढयन्नाह - स्वभावविनिवृत्तिश्च स्थितस्यापीह दृश्यते । घटादेर्नवतात्यागे, तथा तद्भावसिद्धितः ॥ ५०१ ॥ स्वभावविनिवृत्तिश्च प्रस्तुता स्थितस्य व्यवस्थितस्यापि इह लोके दृश्यते घटादेरर्थस्य । अत्र हेतुः नवतात्यागे- नवत्वनिवृत्तिरूपे, ' तथा ' निवृत्तनवतापर्यायत्वेन तद्भावसिद्धितो - घटत्वोपलम्भाद् बालाबलादिभिरिति
॥५०१ ॥
नवताया न चाऽत्यागस्तथा नातत्स्वभावता ।
घटादेर्न न तद्भाव, इत्यत्रानुभवः प्रमा ॥ ५०२॥
तथा - नवताया न च - नैव अत्यागोऽहानिः, किन्तु त्याग एव, तथा न-नैव, अतत्स्वभावता - पुराणस्वभावता, न च इत्यनुवर्तते । ततो " द्वौ नञौ प्रकृतमर्थं गमयत" इति कृत्वा कथञ्चिदतत्स्वभावतैव, घटादेरर्थस्य तथा न तद्भावो - घटभाव: प्राग्रूपपरित्यागोत्तररूपोत्पादयोः सतोरपि कथञ्चिद्घटभाव एव इत्यर्थः, इत्यत्रार्थे अनुभवो - लोकप्रतीतिरूपः प्रमा- प्रमाणम् ॥ ५०२ ॥ अथ प्रस्तुते योजयति
योग्यतापगमेऽप्येवमस्य भावो व्यवस्थितः ।
सर्वोत्सुक्यविनिर्मुक्तः, स्तिमितोदधिसन्निभः ॥ ५०३ ॥
'योग्यतापगमेऽप्यन्यसंयोगयोग्यताया अपगमेऽपि अस्यात्मनो भाव:स्वसत्तालक्षणो व्यवस्थितोऽमुपरत: सर्वोत्सुक्यविनिर्मुक्तो निःशेषत्वराविरहितः । तथा स्तिमितोदधिसन्निभो - व्यावृत्तक्षोभसलिलनिधिनिभः ॥५०३ ॥
२९७
एकान्तक्षीणसंक्लेशो, निष्ठितार्थस्ततश्च सः । निराबाधः सदानन्दो, मुक्तावात्माऽवतिष्ठते ॥ ५०४ ॥ तथा - एकान्तक्षीणसंक्लेशः - सर्वथोपरताविशुद्धिः निष्ठितार्थः - कृतकृत्यभूतः ततश्च तदनन्तरं पुनः, स सम्पन्नयोग्यतापगमः निराबाधः - सर्वव्यसन
१. योग्यतेत्यादि
योग्यतापगमेऽ -A; २. एकान्तेत्यादि तथा -A;
-
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org