________________
२९६
योगबिन्दु सूत्र : ४९६-४९७-४९८-४९९-५०० संयोगयोग्यताऽभावो, यदिहात्मतदन्ययोः । - कृतो न जातु संयोगो, भूयो नैवं भवस्ततः ॥४९७॥
संयोगयोग्यताया अभावो, यद्-यस्माद् इह-निष्ठाप्राप्ते समाधौ, आत्मतदन्ययोर्जीवकर्मणोः, कृतो 'निर्वर्तित: समाधिनैव, ततः किमित्याह न-नैव जातु-कदाचिदपि संयोगः जीवकर्मणोः भूयः- पुनरपि । ततोऽपि किमित्याह नैवं संयोगयोग्यताभावे सति भव:-संसार'ततः' तस्माद्धेतोरिति ४९७ ॥ अथ परमतमाशंक्य परिहरनाह
योग्यतात्मस्वभावस्तत्, कथमस्या निवर्तनम् ।
तत्तत्स्वभावतायोगादेतल्लेशेन दर्शितम् ॥४९८॥ योग्यता प्रस्तावात्प्रभवो जीवतदन्यसंयोगहेतुरात्मस्वभावो वर्तते, तत्कथमस्या आत्मस्वभावभूताया योग्यतायाः निवर्तनमुपरतिरिति परः, आचार्यः-तत् तस्या योग्यतायाः तत्स्वभावतायोगात्-निवर्तनस्वाभाव्यसम्बन्धात् युज्यत एव निवर्तनं सर्वसंवरलाभे। एतत्' स्वाभाव्यनिवर्तनं, लेशेन दर्शितं' अनन्तरमेव परिणामवादप्रतिष्ठायामिति ॥४९८॥ पर:
स्वनिवृत्तिः स्वभावश्चेदेवमस्य प्रसज्यते ।
अस्त्वेवमपि नो दोषः, कश्चिदत्र विभाव्यते ॥४९९॥ स्वनिवृत्तिरात्मनो निवर्तनं, चेद्यदिब्रूषे, एवमस्मिनभ्युपगमे अस्यात्मनः प्रसज्यते । आचार्य:-अस्तु-भवतु, 'एवमपि' स्वनिवृत्तिरपि नो-नैव दोष:अपराधः कश्चिदत्र-स्वनिवृत्तौ विभाव्यते ॥४९९॥ एतदेव भावयति
परिणामित्व एवैतत्, सम्यगस्योपपद्यते ।
आत्माभावेऽन्यथा तु स्यादात्मसत्तेत्यदश्च न ॥ ५००॥ परिणामित्व एवोक्तलक्षण एव एतत्स्वभावनिवर्तनं सम्यग्यथावत् अस्यात्मन: उपपद्यते । विपक्षे बाधामाह-आत्माभावेऽन्यथा तु-परिणामित्वाभावे पुन: स्यात् स्वभावनिवृत्तौ सत्यां कासावित्याह आत्मसत्ता-आत्मनो रूपमात्मभाव एतत्स्यादित्यर्थः इति: प्राग्वत् । एतदपि भविष्यतीत्याह-अदश्च न-एतच्च १. निवर्तितः-A; २. 'योग्यताप्रस्तावात्प्रभवो' इत्यस्य स्थाने 'योग्यताप्रभावात्' इतिA प्रतो, 'योग्यताप्रस्तावात्' इति-B.C प्रत्योः। ३. पूर्ववत्-B.C;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org