________________
योगबिन्दु सूत्र : ४९३-४९४-४९५-४९६
२९५
सुन्दरमेव, तदवस्थान्तरं परं तस्यात्मनोऽवस्थान्तरं प्रकृष्टं यद्वर्तते तदेव तात्त्विकी निरुप' चरितत्वान्मुक्तिः स्यात् । तदन्यवियोगत आत्मविच्छिन्नकर्मवियोगात् । न तु सांख्य भवानामिव तत्तदवस्थ एवात्मा, नापि सौगतानामिवैकेषां सर्वथा सन्तानोच्छेदोऽपरेषां पुनः शुद्धलक्षणोत्पाद इति
॥४९३ ॥
?
अत एव च निर्दिष्टं, नामास्यास्तत्त्ववेदिभिः । वियोगोऽविद्यया बुद्धिः कृत्स्नकर्मक्षयस्तथा ॥ ४९४ ॥ अत एव चान्य वियोगतो मुक्तेरात्मावस्थान्तरत्वाद्धेतोः निर्दिष्टं नामाभिधानम्, अस्या मुक्तेः तत्त्ववेदिभिः - शास्त्रकारैः । कथमित्याह वियोग:विघटनम् अविद्यया वेदान्तिकानां, बुद्धिः सौगतानां, कृत्स्नकर्मक्षय: जैनानाम् । तथा इति प्राग्वत् ॥४९४ ॥ अथ यः कर्मक्षयतः समाधिरुत्पद्यते तं दर्शयतिशैलेशीसंज्ञिताच्चेह, समाधिरुपजायते ।
कृत्स्नकर्मक्षयः सोऽयं, गीयते वृत्तिसंक्षयः ॥ ४९५ ॥ शैलेशीसंज्ञिताच्चोक्तरूपात्पुनः इह - जैनमते 'समाधिः सकाशादुपजायतेप्रादुर्भवति । कृत्स्नकर्मक्षयः सोऽयं शैलेशीसंज्ञितः समाधिः, गीयते वृत्तिसंक्षयो योगविशेषराज (संज्ञ) इति ॥ ४९५ ॥
अथ योगावस्थान्तरत्वमेव मुक्तेर्भावयतितथा तथा क्रियाविष्टः, समाधिरभिधीयते । निष्ठाप्राप्तस्तु योगज्ञैर्मुक्तिरेष उदाहृतः ॥४९६ ॥
तथा तथा-तेन तेन प्रकारेण क्रियाविष्टस्तत्तत्कर्मक्षपणाय प्रवृत्तो योगः समाधिरभिधीयते । निष्ठाप्राप्तस्तु कर्मक्षपणापर्यन्तप्राप्तः पुनः योगज्ञैरध्यात्मादियोगविशारदैः मुक्तिरेष योग: उदाहृतो निरूपितः ॥४९६ ॥ अत्र
हेतु:
१. चरिता मुक्ति:-A.B.C; २. विभिन्नकर्म - B.C; ३. शैवानामिव - A.B. C; ४. ' तत्तदवस्थ एवात्मा, नापि' इत्यस्य स्थाने तदवस्था वात्मनोऽपि - B. C; ५. वियोगेसकाशादुपजायते इत्यस्य स्थाने समाधिरुपजायते इति C प्रतौ
I - B. C; ६. समाधिः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org