________________
२९४ योगबिन्दु सूत्र : ४८९-४९०-४९१-४९२-४९३
दिदृक्षोक्तरूपा आदिशब्दाद्भवबीजं वासनाऽविद्या च तत्तद्वाद्यभिप्रेता गृह्यते तस्य-दिदृक्षादेरर्थस्य 'निवृत्तिः, निवृत्तिः-उपरमः, आदिशब्दादवस्थान्तरे प्रवृत्तिश्च पूर्वसूरिभि:-पतञ्जलिप्रभृतिभिरुदितं तथा' इति समुच्चये आत्मनोऽपरिणामित्वे-एकान्तेन नित्यत्वे सर्वमेतदुक्तरूपं अपार्थक निष्फलमिति ॥४८९ ॥ यथा च योगमार्गादि घटते तथाह
परिणामिन्यतो नीत्या, चित्रभावे तथाऽऽत्मनि । .
अवस्थाभेदसंगत्या योगमार्गस्य सम्भवः ॥४९०॥ परिणामिन्यतोऽस्मादपरिणामिन्यात्मनि 'योगसम्भवाद्धेतो: नीत्याऽन्यथानुपपत्तिलक्षणया चित्रभावे-नानारूपपर्याये तथा इति प्राग्वत् आत्मनि किमित्याह अवस्थाभेदसङ्गत्या अपरापरावस्थाविशेषलाभेन योगमार्गस्यअध्यात्मादिभेदस्व सम्भवः ॥४९०॥ कुत इत्याह
तत्स्वभावत्वतो यस्मादस्य तात्त्विक एव हि ।।
क्लिष्टस्तदन्यसंयोगात्, परिणामो भवावहः ॥४९१॥ तत्स्वभावत्वतस्तत्स्वाभाव्यनियमात् यस्मादस्य-परिणामिन आत्मनः 'तात्त्विक एव हि' निरुपचरित एव क्लिष्टो-ऽशुभ: तदन्यसंयोगात स्वव्यतिरिक्तकर्मसंयोगात् परिणामो-ऽवस्थान्तररूप: भवावहः संसारहेतुः स्यात् ।।४९१ ।।
स योगाभ्यासजेयो यत्, तत्क्षयोपशमादितः ।
योगोऽपि मुख्य एवेह, शुद्धयवस्थास्वलक्षणः ॥४९२॥ स-भवावहः परिणामः योगाभ्यासजेयो यद्-यस्मात्, तत्क्षयोपशमादितस्तस्य क्लिष्टपरिणामस्य ये क्षयोपशमोपशमक्षयास्तेभ्यः, योगोऽपि मुख्य एव इह-योगविचारे कीदृश इत्याह 'शुद्ध्यवस्थास्वलक्षणः' शुद्धिरूपावस्था स्वलक्षणं यस्येति विग्रहः ॥४९२॥
ततस्तथा तु साध्वेव, तदवस्थान्तरं परम् ।
तदेव तात्त्विकी मुक्तिः, स्यात्तदन्यवियोगतः ॥४९३॥ ततो योगात्, तथा त्वविरतसम्यग्दृष्ट्यादिगुणस्थानक्रमेण पुनः, साध्वेव १. निवृत्त्यादिः, निवृत्तिः-AB.C.; २. योगासम्भ-AB.C;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org