________________
योगबिन्दु सूत्र : ४५८-४५९-४६०-४६१ २८५ नैरात्म्यदर्शनात्सर्वथैवात्माभावावलोकनात् अन्ये बौद्धाः निबन्धनवियोगतोनिमित्तविरहात् दोषप्रहाणं-तृष्णाहानिरूपं इच्छन्ति । कथमित्याह सर्वथासर्वैः प्रकारैः न्याययोगिनो-न्यायप्रधानयोगभाजः, न तु सांख्या इव शास्त्रमात्रशरणा इति ॥४५८॥ अथैत एव स्वमत पुरस्कारार्थमाहुः
समाधिराज एतत्तत्, तदेतत्तत्त्वदर्शनम् ।
आग्रहच्छेदकार्येतत्, तदेतदमृतं परम् ॥४५९॥ समाधिराजः-प्रधानः समाधिः, एतरात्म्यदर्शनं, तच्छास्त्रान्तरगीतं, तदेतत्तत्त्वदर्शनं परमार्थावलोकनं आग्रहच्छेदकारि-मूर्छाविच्छेददायि एतत् । तदेतदमृतं पीयूषं परं-भावरूपम् ॥४५९॥ एतदेव भाव्यते
तृष्णा यजन्मनो योनिधुवां सा चात्मदर्शनात् । ... तदभावान तद्भावस्तत्ततो मुक्तिरित्यपि ॥४६०॥
तृष्णा-लोभलक्षणा यद्यस्मात् जन्मनः-पुनर्भवस्य योनिर्हेतुः ध्रुवानिश्चिता, सा च-सा पुनस्तृष्णा आत्मदर्शनात्-'अहमस्मि' इति निरीक्षणरूपात् । तथापि किमित्याह तदभावात्-आत्माभावात् न तद्भाव:-तृष्णाभावः यतः, तत् तस्मात् ततः-नैरात्म्यदर्शनात् मुक्तिरित्यपि-मुक्तिः परम्परया अनन्तरभावेन च तृष्णाव्यवच्छेदः सम्पद्यत इत्यपिशब्दार्थः ॥४६०॥ एतदेव व्यतिरेकदोषदर्शनद्वारेण भावयति
न हपश्यत्रहमिति, स्त्रिहत्यात्मनि कश्चन ।
न चात्मनि विना प्रेम्णा, सुखकामोऽभिधावति ।।४६१॥ न-नैव हिर्यस्मात् अपश्यन्-अनिरीक्षमाणः अहमित्युल्लेखेन स्निह्यति स्नेहवान् भवति आत्मनि-विषयभूते कश्चन बुद्धिमान् । न-नैव चः समुच्चये आत्मनि-विषये विना-ऽन्तरेण प्रेम्णा-प्रियत्वेन । सुखकाम:-सुखाभिलाषी अभिधावति प्रवर्तते ॥४६१॥ ततः
१. पुरस्करणार्थमाहुः-A
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org