________________
२८४ योगबिन्दु सूत्र : ४५४-४५५-४५६-४५७-४५८
दिदृक्षा विनिवृत्तापि, नेच्छामात्रनिवर्तनात् ।
पुरुषस्यापि युक्तेयं, स च चिद्रूप एव वः ॥४५५॥ दिदृक्षा-अनिवृत्तकौतुकत्वेन बाह्यानर्थान्द्रष्टुमिच्छा, विनिवृत्तापि 'मुक्तावस्थायां न केवलमन्तःकरणाभाव इत्यपिशब्दार्थ: 'निमित्ताभावे' इत्यनुवर्तते न-नैव । एतत्कुत इत्याह 'इच्छामात्रनिवर्तनात्' इच्छाया एव केवलाया न तु दर्शनस्य चैतन्यापरनामकस्य व्यावृत्तेः । तथा पुरुषस्याप्यात्मनो युक्तेयमात्मविषयदिदृक्षाविनिवृत्तिः, किं पुनर्बाह्यार्थविषयदिदृक्षाविनिवृत्तिरित्यपिशब्दार्थः । किमुक्तं भवति ? 'मुक्तावस्थायामन्तःकरणाभावादात्मन आत्मानं द्रष्टुमिच्छाया अपि चैतन्याभिन्नप्रसाधितज्ञानहेतुत्वेन भवद्भिः परिकल्पिताया विनिवृत्तिः प्रसज्यते, ततस्तत्रात्मनः स्वविज्ञानं न स्यादिति । तद्येतदेवास्तु को दोष इत्याह स च-आत्मा 'चिद्रूप एव' स्वविज्ञानरूप एव, वः-युष्माकम् ॥४५५॥ ततः
चैतन्यं चेह संशुद्धं, स्थितं सर्वस्य वेदकम् ।
तन्त्रे ज्ञाननिषेधस्तु, प्राकृतापेक्षया भवेत् ॥४५६॥ चैतन्यं च-चैतन्यमेव केवलं इह-मुक्तौ, संशुद्धं-निरावरणं स्थितं सर्वस्य ज्ञेयस्य वेदकं तन्त्रे-आगमे । ज्ञाननिषेधस्तु-यः पुनर्ज्ञानप्रतिषेधो भणितो मुक्तौ, स प्राकृतापेक्षया-विकल्परूपमानसं ज्ञानमपेक्ष्य भवेत् ॥अत्रैव युक्तयन्तरमाह
आत्मदर्शनतश्च स्यान्मुक्तिर्यत्तन्त्रनीतितः ।
तदस्य ज्ञानसद्भावस्तन्त्रयुक्त्यैव साधितः ॥४५७॥ आत्मदर्शनतश्चाऽऽत्मनैवात्मावलोकनादेव स्यान्मुक्तिर्यद्यस्मात् तन्त्रनीतित: शास्त्रयुक्तेस्सकाशात् तत्-तस्मात् अस्यात्मनः । ज्ञानसद्भावो-विषयग्राहकचैतन्यरूप: तन्त्रयुक्त्यैव-शास्त्रोपपत्त्यैव साधितो मुक्तावस्थायामिति ॥४५७॥ अथ बौद्धमतमधिकृत्याह
नैरात्म्यदर्शनादन्ये, निबन्धनवियोगतः । दोषप्रहाणमिच्छन्ति, सर्वथा न्याययोगिनः ॥४५८॥
१. मुक्त्यवस्थायां-AB.C.; २. मुक्त्यव-AB.C.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org