________________
योगबिन्दु सूत्र : ४६२-४६३-४६४-४६५
सत्यात्मनि स्थिरे प्रेम्ण, न वैराग्यस्य सम्भवः । न च रागवतो मुक्तिर्दातव्योऽस्या जलाञ्जलिः ॥४६२ ॥ सत्यात्मनि स्थिरे-स्थिररूपे, तथा प्रेम्णि स्थिररूप एव न-नैव वैराग्यस्य सम्भवस्तृष्णाभावरूपः, न च रागवतो जीवस्य मुक्ति:, तस्मादात्मदर्शिभिः दातव्योऽस्या मुक्तेः जलाञ्जलिर्लोकप्रसिद्धः । आत्मदर्शनवज्रपातेन तस्या उपहतत्वात् ॥४६२॥ अत्र प्रतिविधीयते
२८६
नैरात्म्यमात्मनोऽभावः, क्षणिको वाऽयमित्यदः विचार्यमाणं नो युक्त्या, द्वयमप्युपपद्यते ॥ ४६३ ॥
अत्र हि द्वयी कल्पना, 'नैरात्म्यं' यद्दर्शनात्किल मुक्तिस्तत् आत्मनोऽभावः स्यादुत क्षणिको वा-क्षणमात्रस्थायी वायमात्मा ? इतिर्विकल्पद्वयसमाप्त्यर्थः । ततः किमित्याह अदः - एतत् विचार्यमाणं-चिन्त्यमानं नो-नैव युक्तयांशुद्ध हेतुप्रयोगरूपया द्वयमपि द्विरूपितमपि विकप्लितं उपपद्यते - घटत इति ॥४६३ ॥ एतदेव भावयति
सर्वथैवात्मनोऽभावे, सर्वा चिन्ता निरर्थका ।
सति धर्मिणि धर्मा यच्चिन्त्यन्ते नीतिमद्वचः ॥४६४ ॥ सर्वथैव-द्वयरूपतयापि, आत्मनोऽभावे - विरहे किमित्याह सर्वा स्वर्गमोक्षादिफला चिन्ता - अनुष्ठानफलपर्यालोचनरूपा निरर्थका - फलभोक्तुः कस्यचित्कदाचिदभावात्, सति धर्मिणि - द्रव्यरूपे धर्मा विशेषाः यद्यस्मात् चिन्त्यन्त इति नीतिमद्वचो - नीतिधनपुरुषभाषितमिति । न हि वन्ध्यासुतादावेकान्तेनाविद्यमाने कश्चिद्विपश्चित्सुरूपकुरूपादीन्विशेषांश्चिन्तयितुमारभत इति ॥ ४६४ ॥ तथा
१
नैरात्म्यदर्शनं कस्य, को वाऽस्य प्रतिपादकः ।
एकान्ततुच्छतायां हि, प्रतिपाद्यस्तथेह कः ॥ ४६५ ॥ नैरात्म्यदर्शनं कस्य - द्रष्टुः को वास्य- नैरात्म्यस्य प्रतिपादक:एकान्ततुच्छतायामात्मनः हिः स्फुटं प्रतिपाद्यः प्रज्ञापनीयः ' तथा ' इति समुच्चये इह - नैरात्म्यप्रज्ञापनायां प्रकृतायां को - न कश्चिदिति ॥४६५ ॥ १. दर्शिभिः वादिभि - A.B.; २. निरर्थिका - AC; ३. लोचरूपा - A; लोचफला .B.C. ४. निरर्थिका - A.C; ५. कश्चिदपीति - A.B. C. ;
Jain Education International
For Personal & Private Use Only
-
www.jainelibrary.org