________________
२४२ योगबिन्दु सूत्र : ३१५-३१६-३१७-३१८ ।
आह-यदि छद्मस्थस्यातीन्द्रियं 'वस्तु न विषयः, कथं तस्य तत्प्रज्ञापना युज्यत इत्याह
हस्तस्पर्शसमं शास्त्रं, तत एव कथंचन ।
अत्र तनिश्चयोऽपि स्यात्, तथाचन्द्रोपरागवत् ॥३१६॥ हस्तस्पर्शसममन्धस्य हस्तस्पर्शेन वस्तूपलम्भतुल्यं शास्त्रमतीन्द्रियार्थगोचरं वर्तते । कुतः ? यतः 'तत एव'-शास्त्रादेव कथंचन-केनापि प्रकारेण अत्रछद्मस्थे प्रमातरि तन्निश्चयोऽप्यतीन्द्रियवस्तुनिर्णयः स्यात्, किं पुनर्विशेषापेक्षया निश्चय इत्यपिशब्दार्थः । दृष्टान्तमाह 'तथाचन्द्रोपरागवत्' तथा तत्प्रकारोऽर्धविभागादिविषयतया चन्द्रस्योपरागो राहुस्पर्शस्तद्वत् । यथा शास्त्रात् सर्वविशेषानिश्चयेऽपि चन्द्रोपराग: केनापि विशेषेण निश्चीयत एव, तथान्यदप्यतीन्द्रियं वस्तु छद्मस्थेनेति ॥३१६ ॥ उपसंहारमाह
ग्रहं सर्वत्र सन्त्यज्य, तद्गम्भीरेण चेतसा । - शास्त्रगर्भः समालोच्यो ग्राह्यश्चेष्टार्थसङ्गतः ॥३१७॥
ग्रहं अतत्त्वाभिनिवेशं सर्वत्र-देवतादावर्थे सन्त्यज्य-विहाय तत्तस्मात् गम्भीरेणाऽनुत्तानेन 'चेतसा' हृदये(येन) 'शास्त्रगर्भ:'-शास्त्रैदम्पर्य समालोच्य:सम्यक् पर्यालोचनीयः, ग्राह्यश्च-ग्रहणीयः इष्टार्थसङ्गतो-युज्यमानार्थसम्पन्न इति ॥३१७॥
अथ दैवपुरुषकारश्चेत्यादि [२१ तमे श्लोके] यत्प्रागुक्तमासीत्तत्तथैवानूद्य समर्थयमान आहरे
दैवं पुरुषकारश्च, तुल्यावेतदपि स्फुटम् ।
एवं व्यवस्थिते तत्त्वे, युज्यते न्यायतः परम् ॥३१८॥ 'दैवं पुरुषकारश्च तुल्यावेतदपि स्फुटम्' इति प्राग्वत् । एवमुक्तरूपेण परिणामित्वादिना व्यवस्थिते-प्रतिष्ठिते तत्त्वे-जीवादौ युज्यते-घटते न्यायतोनीत्या परं-केवलं, न पुनरन्यथेति ॥३१८॥ एतदेव भावयति
१. वस्तु विषयं-AB.C.; २. दैवपुरुषकाराधिकाराय उपदेशपदे श्लोक ३४१ त: ३५१ पर्यन्तानि श्लोकानि द्रष्टव्यानि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org