________________
योगबिन्दु सूत्र : ३१३-३१४-३१५
२४१ मनीषिणो-जैनाः । अत्रैव मतान्तरमाह 'अन्ये'-नियतिमात्रजगत्कारणवादिनः 'नियतभावत्वात्'-नियतो द्रव्यक्षेत्रकालभावनियमेन प्रतिनियमवान् भाव: 'स्वभाव: सत्ता येषां तीर्थंकरादीनां ते तथा, तद्भावस्तत्त्वं तस्मात् । अन्यथासांसिद्धिकवैलक्षण्येन नियतिजमित्यर्थः न्यायवादिनः-युक्तिभाषिणः । तथा च नियतिवादिमतं "यद्यदा तत्तदा, यद्यत्र तत्तत्र, यद्येन तत्तेन, यद्यस्य तत्तस्य, यद्भवति तद्भवति, यन्न भवति तन्न भवतीति" । तथा “प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने, नाऽभाव्यं भवति न भाविनोऽस्ति नाशः ॥" इति ॥३१३॥ नियतभावत्वमपि सांसिद्धिकमेवेति दर्शयन्नाह
सांसिद्धिकमदोऽप्येवमन्यथा नोपपद्यते ।।
योगिनो वा विजानन्ति, किमस्थानग्रहेण नः ॥१४॥ सांसिद्धिकं-स्वभावभवं अदोऽपि-नियतभावत्वं किं पुनस्तत्स्वभावत्वमित्यपिशब्दार्थः एवमुक्तप्रकारेण अन्यथा-सांसिद्धिकत्वमन्तरेण नोपपद्यतेन घटते । न हि वन्ध्यासुतादीनां स्वकीयस्वभावविरहेण नियतभावत्वलक्षणो विशेषः कश्चिद्युज्यते । इति सर्वकार्यकदम्बकव्यापकं सांसिद्धिकं तत्स्वभावत्वमवश्यमेष्टव्यमिति । योगिनो वा-अथवा योगिनो दिव्यदृशो 'विजानन्ति''इत्थमिदमित्थं वातीन्द्रियत्वादस्यार्थस्य, 'किं'-न किंचित्साध्यमित्यर्थः अस्थानग्रहेण-विशेषनिरूपणारूपेण नोऽस्माकम् ॥३१४॥ एतदेव दर्शयन्ति (भावयन्ति)
अस्थानं रूपमन्धस्य, यथा सनिश्चयं प्रति ।
तथैवातीन्द्रियं वस्तु, छद्मस्थस्यापि तत्त्वतः ॥३१५॥ अस्थानमविषयः रूपं-नीलकृष्णादिलक्षणं अन्धस्य-लोचनव्यापारविकलस्य, यथा सनिश्चयं-विशदावलोचनं प्रत्याश्रित्य । तथैवान्धरूपसन्निश्चयन्यायेन अतीन्द्रियं वस्त्वात्मादिविशेषरूपं छद्मस्थस्याप्यर्वाग्दृशः प्रमातुः किं पुनरन्धस्य रूपमित्यपिशब्दार्थः तत्त्वतः-परमार्थनीत्या ॥३१५॥
१. 'स्वभावः' इति AB. प्रोनास्ति; २. इत्थमिदमनित्थं-AB.C.; ३. भावयति-C.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org