________________
२४०
योगबिन्दु सूत्र : ३१०-३११-३१२-३१३ उभयोरीश्वरप्रधानयोः परिणामित्वं-कथञ्चिद् ध्रोव्येऽप्यपरापरपर्यायवत्त्वं 'स्थितं' इत्युत्तरेण योगः । कुत इत्याह-'तथाभ्युपगमात्'तत्प्रकाराङ्गीकारात् ध्रुवं-निश्चितम् । तथाभ्युपगममेव दर्शयति अनुग्रहात्-उपष्टम्भात्तथाविधयोग्यजीवानामीश्वरेण, 'प्रवृत्तेश्च' व्यापारणात्प्रधानस्य । कथमित्याह तथाद्धाभेदतः'तत्प्रकारकालभेदेन स्थितं-प्रतिष्ठितम् । अयमत्र भावः यदा कालभेदेन सत्त्वानामीश्वरस्तथातथानुग्राहक इष्यते प्रधानं च तथातथाप्रवृत्तिमत्, तदा नूनमेतयोर्न नित्यैकरूपता, किं त्वनेकरूपतैवेति बलात्परिणामित्वमापनमनयोरिति ॥३१०॥ एवं च सति किमित्याह
सर्वेषां तत्स्वभावत्वात्तदेतदुपपद्यते ।
नान्यथातिप्रसङ्गेन, सूक्ष्मबुद्धया निरूप्यताम् ॥३११॥ सर्वेषामीश्वरप्रधानानुग्राह्यानां तत्स्वभावत्वाद्-अनु'ग्राहकनिवृत्ताधिकारित्वा-नुग्राह्यरूपत्वात् तदेतदीश्वरानुग्रहादि उपपद्यते-घटते । विपक्षे बाधामाह-'नान्यथा' तत्स्वभावत्वमन्तरेण अतिप्रसङ्गेन-अतिव्याप्त्या सूक्ष्मबुद्ध्या -निपुणाभोगेन निरूप्यतां-चिन्त्यतामिति ॥३११॥ अथ प्रस्तुतमेव तीर्थकरादित्वमधिकृत्याह
आत्मनां तत्स्वभावत्वे, प्रधानस्यापि संस्थिते । ईश्वरस्यापि सन्यायाद, विशेषोऽधिकृतो भवेत् ॥३१२॥ आत्मनां-जीवानाम् 'तत्स्वभावत्वे'ऽनुग्राह्यस्वभावत्वे 'संस्थिते-सिद्धे ईश्वरस्यापि-प्रागुपन्यस्तस्यानुग्राहकत्वरूपे तत्स्वभावत्वे सन्न्यायादनन्तरमेवोपन्यस्तात् विशेषोऽधिकृततीर्थकरादिरूपः भवेत्-स्यात् ॥३१२ ॥ अथ यदेतत्तत्स्वभावत्वं तीर्थकरादिहेतुत्वेनोक्तं तत्स्वरूपमाह
सांसिद्धिकं च सर्वेषामेतदाहुर्मनीषिणः ।
अन्ये नियतभावत्वादन्यथा न्यायवादिनः ॥३१३॥ सांसिद्धिकं च-स्वभावभवं पुनः सर्वेषामात्मादीनां एतत्स्वभावत्वं आहुः
१. ग्राहकत्वनिवृत्ता-A; २. प्रधानस्यापि निवृत्ताधकिारित्वलक्षणे तत्स्वभावत्वे संस्थितेAB;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org