________________
योगबिन्दु सूत्र : ३०७-३०८-३०९-३१० २३९ नुमानविषयः । ते चानुमाने अमू-'ये ये चयापचयधर्माणस्ते ते क्वचित्सर्वथाप्युच्छेदं प्रतिपद्यन्ते, यथा क्वचिद्रोगिणि रोगा नभसि वा जलधाराः, चयापचयधर्माणश्च रागादयः, ततो यत्र ते सर्वथा समुच्छेदभाजः स कश्चित्पुरुषातिशयो मुक्तादिशब्दवाच्यो देवः । तथा यस्तुल्यसाधनयोर्द्वयोः फलविशेषो नासावदृष्टं कारणं विना युज्यते, कार्यत्वात्, यद्यत्कार्यं तत्तत्कारणं विना न स्यात्, यथा घटः, कार्यं च फलविशेषः । ततो यस्तत्र हेतुः स कर्मेतीत्याद्यनुमानैः साधितोऽपि देवतादिरर्थो न सर्वविशेषानुगतः प्रतिपत्तुं शक्यः, किं तु सामान्यरूपः, ततः किं विशेषचिन्तयाऽशक्यार्थविषययेति । न च वक्तव्यं 'शास्त्रात्तर्हि निश्चयो भविष्यति,' तस्याप्याप्तवचनत्वेनाभिधीयमानार्थान्यथानुपपन्नतया तत्त्वतोऽनुमानत्वात् ॥३०७॥ अथ कालातीतोक्तं शास्त्रकृत्स्वयमेव समर्थयमानः प्राह
साधु चैतद्यतो नीत्या, शास्त्रमत्र प्रवर्तकम् । . तथाभिधानभेदात्तु, भेदःकुचितिकाग्रहः ॥३०८॥
साधु च-सुन्दरं पुनः एतत्कालातीतोक्तम् । यतो-यस्मात् नीत्यापरमार्थचिन्तारूपया शास्त्रं आगमः अत्र देवतादावर्थे प्रवर्तकं-प्रवृत्तिहेतुः । तथाभिधानभेदात्तु-मुक्तबुद्धादिनामनानात्वेन पुनः भेदो देवताकर्मादीनां, किमित्याह कुचितिकाग्रह:-कौटिल्यावेशरूप इति ॥३०८॥ ततः
विपश्चितां न युक्तोऽयमैदम्पर्यप्रिया हि ते ।
यथोक्तास्तत्पुनश्चारू, हन्ताऽत्रापि निरूप्यताम् ॥३०९॥ विपश्चितां-विदुषां न युक्तो-ऽघटमानः अयं-कुचितिकाग्रहः । कुत इत्याह 'ऐदम्पर्यप्रिया'-वल्लभपरमार्थाः हि यस्मात् ते-विपश्चितः यथोक्तास्तात्त्विकरूपाः । यदि नामैवं ततः किमित्याह-तत्पुनः ऐदम्पर्यं चारु-शुद्धं 'हन्त' इति प्राग्वत्, अत्रापि-अस्मिन्नपि कालातीतोक्ते, किं पुनः शेषविपश्चिदुक्ते, 'निरूप्यतां' निपुणाभोगेन ॥३०९॥ . अथ कालातीतमतस्वमतयोर्विशेषेणाऽभेदं दर्शयन्नाह
उभयोः परिणामित्वं, तथाभ्युपगमाद् ध्रुवम् । अनुग्रहात्प्रवृत्तेश्च, तथाद्धाभेदतः स्थितम् ॥३१०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org