________________
२३८
योगबिन्दु सूत्र : ३०५-३०६-३०७ अविद्याक्लेशकर्मादि, यतश्च भवकारणम् । ... ततः प्रधानमेवैतत्, संज्ञाभेदमुपागतम् ॥३०५॥ अविद्या वेदान्तिकानां, क्लेशः सांख्यानां, कर्म जैनानां, अदिशब्दाद्वासना सौगतानां, 'पाशः शैवानाम् । यतो-यस्मात् चकारो वक्तव्यान्तरसूचनार्थः, भवकारणं-संसारहेतुः ततः-तस्मादविद्यादीनां भवकारणत्वाद्धेतोः प्रधानमेव एतद्-अस्मदभ्युपगतं भवकारणं सत् किमित्याह संज्ञाभेदं-नामान्तररूपम् उपागतं-प्राप्तम्, न त्वन्यत्किञ्चित् ॥३०५॥
.. अत्रापि परपरिकल्पितविशेषनिराकरणायाह- .
अस्यापि योऽपरो भेदश्चित्रोपाधिस्तथातथा ।
नीयतेऽतीतहेतुभ्यो, धीमतां सोऽप्यपार्थकः ॥३०६॥ अस्यापि-प्रधानस्य योऽपरो-भवकारणत्वात्सार्वाभ्युपगतादन्यः भेदो- . विशेषः कीदृश इत्याह 'चित्रोपाधि:'-चित्रो नानारूप उपाधिमूर्तत्वाऽमूर्तत्वादिलक्षणो यस्य स तथा, 'तथातथा'-तत्तदर्शनभेदेन गीयते-वर्ण्यते । किमित्याह 'अतीतहेतुभ्यः'-अनन्तरमेव "विशेषस्याऽपरिज्ञानात्" (३०४) इत्यादिश्लोकोक्तेभ्यः सकाशात् धीमतां-बुद्धिमतां, सोऽपि-किं पुनर्देवतागत इत्यपिशब्दार्थः ।अपार्थको-ऽपगतपरमार्थप्रयोजनः, स(सा)र्वैरपि भवकारणत्वेन योगाभ्यासापनेयस्यास्योपगमात्,अन्यस्य-विशेषस्य सतोऽप्यकिंचित्करत्वादिति ॥३०६॥ यत एवम्
ततोऽस्थानप्रयासोऽयं, यत्तद्भेदनिरूपणम् ।
सामान्यमनुमानस्य, यतश्च विषयो मतः ॥३०७॥ ततः-विशेषस्यापार्थकत्वाद्धेतोः अस्थानप्रयासोऽयमस्थानप्रयत्न एष तत्त्वचिन्तकानां यत्तद्भेदनिरूपणं-देवादिविशेषगवेषणम् । किंचासौ न प्रत्यक्षसाध्यः किंत्वनुमानात्, तत्र च 'सामान्यं'-अस्तित्वमात्रादि न तु विशेष:, अनुमानस्य-प्रमाणविशेषस्य यतो-यस्मात् चः समुच्चये विषयो-गोचरः मतोऽभिप्रेतः । अयमभिप्रायः-निर्दोषपुरुषविशेषरूपो देव: कर्म चाप्रत्यक्षत्वाद
१. पाशाः शैवानाम्-A.B.C::
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org