________________
योगबिन्दु सूत्र : ३०४
विशेषस्य-मुक्तादिदेवताविशेषगतस्य अपरिज्ञानाद् - असंवेदनादर्वाग्दशिप्रत्यक्षेण । तथा युक्तीनामनुमानरूपाणां जातिवादतो- असिद्धादिहेतुदोषोपघातेनानुमानाभासत्वात् प्रायो - बाहुल्येन विरोधतो - विरुद्धत्वात् । चैव इति पूर्ववत् । तथाहि - सांख्य: शैवश्च सर्वक्षणिकवादिनं सौगतं प्रत्याहतुर्यथा - भवदाराध्यो बुद्धोऽर्थक्रियां देशनादिकां स्वक्षणे, पूर्वं पश्चाद्वा कुर्यादिति त्रयी गतिः । तत्र न तावदाद्यः पक्षः कक्षीकरणीयः, समकालभाविनि व्यापाराभावात्, इतरथैकक्षणवर्तिनां समस्तार्थक्षणानामितरेतरकार्यकारणभाव: प्रसज्येत, न चैतद् दृष्टमिष्टं वा । अथ स्वक्षणात्पूर्वमेवार्थे ( प्रवर्तते), एतदपि न स्वयमसतो भविष्यच्छङ्गचक्रवत्र्त्यादेरिव पूर्वकालविवर्तिनि कार्ये व्यापाराभावात् । अथ स्वक्षणादूर्ध्वं कार्यं विधत्त इति मन्येथाः, एतदप्यसाधीय:, विनष्टस्य कार्यकरणाऽक्षमत्वात्, अन्यथा मृतस्य शिखिनः केकायितं स्यात् । एवं च क्षणिकादर्थाद्व्यावर्तमानार्थक्रिया तीराऽदर्शिशकुनिन्यायेन नित्यानेव भावानाश्रयतया प्रतिपद्यत इति नित्यरूपः । अत एवानादिशुद्ध ईश्वरनामा आप्तविशेषोऽभ्युपगन्तुमुचित इति ।
बौद्धः पुनः प्राह - ईश्वरोऽप्रच्युतानुत्पन्नस्थिरैकस्वभावो भवद्भिरभ्यपगम्यते । न च नित्यस्य कथंचिदप्यर्थक्रिया युज्यते । नित्यो ह्यर्थः क्रमेण यौगपद्येन वार्थक्रियां कुर्वीत ? न तावत्क्रमेण, सन्निहितसर्वशक्तेः सहकारिभिश्चा- नाधेयातिशयस्य युगपदेव त्रैकालिकसर्वकार्यकरणप्रसङ्गात् । नापि यौगपद्येन, यतस्तत्र युगपदेव सर्वकार्यकरणेन कृतस्य पुनः करणाभावेन च द्वितीयक्षणेऽर्थक्रियाविरहलक्षणं बलादसत्त्वमाढौकमानं न केनापि निरोद्धुं पार्यत इति प्रतिक्षणं परिवर्तमानापरापररूपः सर्वार्थक्रियाक्षमोऽभ्युपगन्तुं युक्तोऽसाविति ।
२३७
'फलाभेदाच्च' - फलस्य क्लेशक्षयलक्षणस्य गुणप्रकर्षरूपपुरुषाराधनासाध्यस्य क्वचिन्नित्यानित्यत्वादौ विशेष आराध्यगते सत्यप्यभेदादविशेषात् भावतः-परमार्थतः । गुणप्रकर्षविषयस्य बहुमानस्यैव फलदायकत्वात्तस्य सर्वत्र मुक्तादावविशेषादिति ॥३०४ ॥ तथा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org