________________
- २३६
योगबिन्दु सूत्र : ३००-३०१-३०२-३०३-३०४ यदब्रवीत्तदेव दर्शयति
अन्येषामप्ययं मार्गो, मुक्ताऽविद्यादिवादिनाम् । .
अभिधानादिभेदेन, तत्त्वनीत्या व्यवस्थितः ॥३०१॥ अन्येषामपि-तीर्थान्तरीयाणां किं पुनरस्माकमित्यपिशब्दार्थः अयमस्मदुक्तः मार्गो-देवतादिगोचरः कीदृशानां मुक्ताऽदिवादिनामविद्यादिवादिनां च मतेन । कथमित्याह अभिधानादिभेदेन-अभिधानभेदेन, आदिशब्दाक्वचित्किंचित्स्वरूपभेदेन च तत्त्वनीत्या-परमार्थरूपया व्यवस्थितः-प्रतिष्ठितः ॥३०१॥ एतदेव भावयति
मुक्तो बुद्धोऽर्हन्वापि यदैश्वर्येण समन्वितः ।
तदीश्वरः स एव स्यात्, संज्ञाभेदोऽत्र केवलम् ॥३०२॥ मुक्त:-परब्रह्मवादिनां बुद्धो-बौद्धानां अर्हन्-जैनानां वापि' इति समुच्चये यद्-यस्मात् ‘ऐश्वर्येण'-ज्ञानाद्यतिशयलक्षणेन समन्वितो'-युक्तो वर्तते । तत्तस्मात् ईश्वरोऽस्मदुक्तः स एव मुक्तादिः स्यात्, विशेषमाह 'संज्ञाभेद:'नामनानात्वं, अत्र-मुक्तादिप्रज्ञापनायां, केवलं-नवरं, नान्यत्किंचन ॥३०२॥ अत्रैव स एव परपरिकल्पितविशेषनिराकरणायाह-२
अनादिशुद्ध इत्यादिर्यश्च भेदोऽस्य कल्प्यते । तत्तत्तन्त्रानुसारेण, मन्ये सोऽपि निरर्थकः ॥३०३॥ अनादिशुद्ध इत्येवंरूप आदिर्यस्य स तथा । तत्रानादिशुद्धः सर्वगश्च शैवानां, सादिरसर्वगतश्च जैनानां, स एव प्रतिक्षणं भारः सौगतानां,यश्चयः पुनः भेदो-विशेषः अस्येश्वरस्य कल्प्यते-समर्थ्यते । कथमित्याह तत्तत्तन्त्रानुसारेण-तस्य तस्य दर्शनस्यानुवृत्त्या । मन्ये-प्रतिपद्ये सोऽपि विशेषः किं पुनः प्रागभिहितः संज्ञाभेद इत्यपिशब्दार्थः निरर्थको-निष्प्रयोजनः ॥३०३॥ कुत इत्याह
विशेषस्यापरिज्ञानाद्युक्तीनां जातिवादतः ।
प्रायो विरोधतश्चैव, फलाभेदाच्च भावतः ॥३०४॥ १. पीति यदैश्वर्यसमन्वितः-A: २. अनादीत्यादि-B.C.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org