________________
२३५
योगबिन्दु सूत्र : २९८-२९९-२९९-३०० वन्द्यो-वन्दनीयः तथा-तत्प्रकारः इष्यते-मन्यते देवतातिशयो-विशिष्टदेवताख्यः (रूप:) कश्चिज्जिनादिः, स्तवादेः-स्तवन-पूजन-नमनानुध्यानादेः क्रियायाः फलद:-स्वर्गापवर्गादिफलदायी, 'तथा' इति समुच्चये अत्र यद्यपि स्वकर्तृका स्तवादिक्रिया फलं प्रयच्छति, तथापि स्तवनीयालम्बनत्वेन तस्यास्तत्स्वामिकत्वमिति स्तोतव्यनिमित्त एव स्तोतुः फललाभ इति ॥२९८॥ अथ द्वितीयानुग्रहभावनायाह
भवंश्चाप्यात्मनो यस्मादन्यतश्चित्रशक्तिकात् ।
कर्माद्यभिधानादेर्नान्यथातिप्रसङ्गतः ॥२९९॥ भवंश्चापि-जायमानोऽपि प्रस्तुतो विशेषः आत्मनो-जीवस्य यस्मात्कारणात् अन्यतो-व्यतिरिक्तात् चित्रशक्तिकानानारूपसामर्थ्यात् । कीदृशादित्याह कर्मादि' कर्म अविद्याक्लेशादिरूपं अभिधानादेः-अभिधानं आदिशब्दात् स्वरूपं वा यस्य तत्तथा तस्मात् । विपक्षे बाधामाह न-नैव अन्यथा-तत्तत्स्वभावतां मुक्त्वा कुत-इत्याह अतिप्रसङ्गत:-अतिव्याप्तेः । यदि हि स्वयोग्यतामन्तरेणापि कर्मकृतोऽनुग्रहः स्यात्, तदा सर्वजीवानामसावविशेषेण स्यादिति । तस्मात्सर्वत्र स्वयोग्यतैव प्रधानो हेतुरिति ॥२९९ ॥ उपसंहरबाह- .
माध्यस्थ्यमवलम्ब्यैवमैदम्पर्यव्यपेक्षया ।
तत्त्वं निरूपणीयं स्यात्, कालातीतोऽप्यदोऽब्रवीत् ॥३०॥ माध्यस्थ्यं-स्वपक्षानुरागपरपक्षद्वेषयोरन्तरालस्थायित्वम् अवलम्ब्य एवमुक्तयुक्त्या ऐदम्पर्यव्यपेक्षया-परमार्थपर्यालोचनेन तत्त्वं-'दैवतादिरूपम् निरूपणीयं -चिन्तनीयम् स्याद्-भवेत्, तच्चिन्तने च गुणप्रकर्षरूपाणां देवताविशेषाणामात्म विशेषाभिधायिनां बाह्यस्य च कर्मणः तथाविधसंज्ञाभेदेऽपि न कश्चिद् भेदोऽस्तीति ।अथ परमतेनापि संवादयन्नाह-'कालातीतोऽपि' शास्त्रकृद्विशेषः किं पुनर्वयमित्यपिशब्दार्थः अदः-एतद्, अब्रवीत्-उक्तवान् ॥३०॥
१. ग्रह भावयन्नाह-BC २. नादि-अभिधानं-AB.C:; ३. देवतादि-A; ४. विशेषाधानांAB.C.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org