________________
२३४ योगबिन्दु सूत्र : २९५-२९६-२९७-२९८
विशेषं चास्य मन्यन्त, ईश्वरानुग्रहादिति । ___ प्रधानपरिणामात्तु, तथाऽन्ये तत्त्ववादिनः ॥२९५॥ _ 'विशेष च'-विशेषं पुनरुक्तरूपम् अस्याधिमुक्त्याशयस्थैर्यस्य मन्यन्ते इच्छन्ति ईश्वरकारणिका ईश्वरानुग्रहात्-महेशोपष्टम्भात् इत्येवमेके । प्रधानपरिणामात्तु-सत्त्वरजस्तमोरूपप्रकृतिपरिणतेः पुनः सकाशात् तथाऽन्ये तत्त्ववादिनःसांख्याः ॥२९५॥ अत्र प्रतिविधत्ते
- तत्तत्स्वभावतां मुक्त्वा, नोभयत्राप्यदो भवेत् ।।
एवं च कृत्वा ह्यत्रापि हन्तैषैव निबन्धनम् ॥२९६॥ 'तत्तत्स्वभावतां'-तस्य तीर्थकरत्वादिरूपफलविशेषभाजो जीवस्य तत्स्वभावता विशेषार्हता ताम् मुक्त्वा-विहाय न-नैव उभयत्रापि-ईश्वरानुग्रहपक्षे च, अद:-प्रस्तुतविशेषवदनुष्ठानम् भवेत्-जायेत । एवं च कृत्वा अस्मिँश्चार्थे प्रतिष्ठाविषये कृते सतीत्यर्थः 'हि' स्फुटम् अत्रापीश्वराद्यनुग्रहाभ्युपगमे किं पुनरस्मदभ्युपगम इत्यपिशब्दार्थ:-, हन्त इति, पूर्ववत् एषैव-तत्स्वभावतैव निबन्धनं-हेतुरित्येत दायत्तैव सर्वकार्यसिद्धिरभ्युपगन्तुमुचितेति ॥२९६ ॥ अथ कथञ्चित्परमतमप्यनुमन्यमान आह
आर्थ्य व्यापारमाश्रित्य, न च दोषोऽपि विद्यते ।
अत्र माध्यस्थ्यमालम्ब्य, यदि सम्यनिरूप्यते ॥२९७॥ आN-सामर्थ्यप्राप्तम् व्यापारमीश्वराद्यनुग्रहरूपम् आश्रित्यापेक्ष्य न च नैव दोषोऽप्यपराधः स्वमतपरिहाररूपः विद्यते-समस्ति, युक्तियुक्तार्थाभ्युपगमे पुनर्गुण एवेत्यपिशब्दार्थः । कथमित्याह अत्र ईश्वरानुग्रहादौ, माध्यस्थ्यंमध्यस्थभावं आलम्ब्य-आश्रित्य यदि-चेत् सम्यक्-यथावत् निरूप्यते-चिन्त्यते ॥२९७॥ अथार्थ्यमेव व्यापारमाचष्टे
गुणप्रकर्षरूपो यत्, सर्वैर्वन्धस्तथेष्यते ।
देवतातिशयः कश्चित्, स्तवादेः फलदस्तथा ॥२९८॥ गुणप्रकर्षरूपो-ज्ञानादिप्रकृष्टगुणस्वभावः यद्-यस्मात् सर्वैर्मुमुक्षुभिः
१. दायत्ततैव-B.C.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org