________________
२३३
योगबिन्दु सूत्र : २९२-२९३-२९४ एवमुक्तप्रकारेण कालादिभेदेन-कालक्षेत्रादिविशेषेण जसिद्ध्यादिसंस्थितिरुक्तरूपा सामग्र्यपेक्षया-तत्तद्गुर्वादिसहकारिकारणसामग्रीमपेक्ष्य न्यायाद्-युक्तेः स्यात् । कुतः ? यतोऽन्यथाऽन्येन प्रकारेण भव्यत्ववैचिव्यपरिहारवत: न-नैव उपपद्यते-घटते, सिद्ध्यादिसंस्थितिः प्रस्तुतेति ॥२९२ ॥ अथ न्यायमेव स्मारयति
तत्तत्स्वभावता चित्रा, तदन्यापेक्षणी तथा ।
सर्वाभ्युपगमव्याप्त्या, न्यायश्चात्र निदर्शितः ॥२९३॥ तेषामात्मकालादीनां कारणानां 'तत्तत्स्वभावता'-विवक्षितकार्यभवनानुकूलस्वभावता चित्रा-नानारूपा 'तदन्यापेक्षणी' परस्परापेक्षावती 'तथा' इति विशेषणसमुच्चये कथमित्याह 'सर्वाभ्युपगमव्याप्त्या' सर्वकार्येषु सामग्रीजन्यत्वाभ्युपगमस्य व्यापनेन या वर्तते, न पुनः केषुचिदेव कार्येषु । 'किमित्याह'न्यायश्च'-न्यायः पुनः, अत्र-बीजस्य सिद्ध्यादौ विषये निदर्शित:-निरूपितः प्रागेव "सामग्रयाः कार्यहेतुत्वम्" (श्लो. ८२) इत्यादिनेति तत्स्वभावतैव चित्रा न्याय(?य्या) इति परमार्थः ॥२९३ ॥ अत्रैवाभिप्रायान्तरमाह
___ अधिमुक्त्याशयस्थैर्यविशेषवदिहापरैः । - इष्यते सदनुष्ठानं, हेतुरत्रैव वस्तुनि ॥२९४॥
अधिमुक्त्याशयस्याप्त(स्यापूर्व) श्रद्धारूपस्य मनसो यत्स्थैर्यमुद्वेगविषादादिभिर्दोषैरक्षोभ्यत्वं तस्य विशेषोऽतिशयस्तारतम्यलक्षणः सोऽस्यास्तीत्यधिमुक्त्याशयस्थैर्यविशेषवत् । इह-योगचिन्तायाम् अपर्योगिविशेषैः इष्यते मन्यते । सत्-संशुद्धम् अनुष्ठानं-यमनियमाभ्यासरूपं हेतुर्निबन्धनं अत्रैवास्मिन्नेव तीर्थकरत्वगणधरत्वमुण्डकेवलित्वलक्षणे, वस्तुनि'-साध्ये । तेन तेन नामभेदेन तैरप्युच्यमानेन पुनः सर्वोपकारादिः प्रागेवोपन्यस्तो हेतुरिति । इदमुक्तं भवतिअत्यन्ताप्तगोचरश्रद्धास्थैर्यवतोऽनुष्ठानात्तीर्थकृत्त्वं, मध्यमश्रद्धासमन्विताद् गणधरत्वं, जघन्यश्रद्धासहितान्मुण्डकेवलित्वमाप्यत इति परे जगुः ॥२९४ ॥ अत्रैव मतविशेषमाह
१. घटते, बीजसिद्ध-ABC; २. सा किमित्याह-A; ३. बीजसिद्ध्यादौ-A:
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org