________________
२३२
योगबिन्दु सूत्र : २८९-२९०-२९१-२९२ । चिन्तानुरूपानुष्ठनात्परोपकाररूपात् सोऽपि न केवलं परोपकारी तीर्थकदित्यपिशब्दार्थः, धीमान्-प्रशस्तबुद्धिः 'गणधरो'-देवदानवमानवादिमाननीयमहिमा तीर्थकराग्रिमशिष्यः, भवेत्-जायेतेति ॥२८९॥ तथा -
संविग्नो भवनिर्वेदादात्मनिःसरणं तु यः । .
आत्मार्थसम्प्रवृत्तोऽसौ, सदा स्यान्मुण्डकेवली ॥२९०॥ .. संविनः “तथ्ये धर्मे ध्वस्तहिंसाप्रबन्धे, देवे रागद्वेषमोहादिमुक्ते । साधौ सर्वग्रन्थसन्दर्भहीने, संवेगोऽसौ निश्चलो योऽनुरागः ॥१॥" एवंलक्षणसंवेगभाक् । भवनिर्वेदात् संसारनैर्गुण्यात् आत्मनिःसरणं तु-जरामरणादिदारुणदहनदह्यमानभवनोदराद् 'दूरमात्मनिष्काशनं पुनः यः 'चिन्तयति' इति गम्यते, आत्मार्थं सम्प्रवृत्त:-स्वप्रयोजनमात्रप्रतिबद्धचित्तः असौ-पूर्वोक्तरूपः सदा-सततमेव स्याद्-भवेत् द्रव्यभावमुण्डनप्रधानो मुण्डश्च केवली च केवलज्ञानदर्शनवान् 'मुण्डकेवली'-केवल्येव तथाविधबाह्यातिशयशून्यः । अत्र दृष्टान्तः पीठमहापीठसाधुयुगलकमिति ॥२९० ॥ अत्रैव चिन्तावैचित्र्ये तथाभव्यत्वमेव हेतुरित्याह
तथाभव्यत्वतश्चित्रनिमित्तोपनिपाततः ।
एवं चिन्तादिसिद्धिश्च, सन्यायागमसङ्गता ॥२९१॥ 'तथाभव्यत्वत' उक्तरूपात् कीदृशादित्याह 'चित्रो' नानारूपो "निमित्तोपनिपातः' कालादिकारणसन्निधानं यस्य तत्तथा तस्मात् ‘एवं चिन्तादिसिद्धि:'-पूर्वोक्तचिन्ता'नुष्ठानसम्भवः, च: समुच्चये, कीदृशीत्याह 'सन्यायागमसङ्गता'-युक्तिशास्त्रघटिता । न हि कारणवैचित्र्यमन्तरेण कार्यवैचित्र्यं लोकशास्त्रयोः क्वचित्केनापि प्रतिपन्नमस्ति । ततोऽधिकृतमपि चिन्तादिवैचित्र्यसिद्धिलक्षणं कार्यं नियमात्कारणवैचित्र्यमपेक्षते, तच्च भव्यत्ववैचित्र्यमपहायान्यन्न युज्यत इति ॥२९१॥ एतदेवोपसंहरनाह
एवं कालादिभेदेन, बीजसिद्धयादिसंस्थितिः । सामग्रयपेक्षया न्यायादन्यथा नोपपद्यते ॥२९२॥
१. दूरमात्मनो निष्का-AB.C.; २. अथात्र-AB.C.; ३. नुष्ठानविरोधसम्भव:-A;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org