________________
योगबिन्दु सूत्र : २८६-२८७-२८८-२८९ २३१ उच्चैरतीव सति-विद्यमाने अस्मिन्-सर्वज्ञोपत्रे धर्मतेजसि-धर्मलक्षण उद्योते
॥२८५॥
अहमेतानतः कृच्छ्राद्, यथायोगं कथञ्चन ।
अनेनोत्तारयामीति वरबोधिसमन्वितः ॥२८६॥ अहं-कर्ता एतान्-भीषणभवभ्रमणरीणान्प्राणिनः अतो-भवात् कृच्छ्राद्'कृच्छ्ररूपात् यथायोगं उत्तारणघटनानतिक्रमेण कथञ्चन-केनापि प्रकारेण अनेन धर्मतेजसा उत्तारयाम्यपसारयामि इत्येतत् वरबोधिसमन्वितः-उक्तरूपवरबोधिसम्पन्नः ॥२८६॥
करुणादिगुणोपेतः, परार्थव्यसनी सदा ।
तथैव चेष्टते धीमान् वर्धमानमहोदयः ॥२८७॥ करुणादिगुणोपेतो-ऽनुकम्पास्तिक्यादिगुणालिङ्गितः तथा परार्थव्यसनी परोपकारकरणव्यसनवान् सदा-सन्ततम् तथैव-करुणादिगुणानुरूपमेव चेष्टते व्यवहरति धीमान् वर्धमानमहोदय:-प्रतिक्षणारोहन्नवनवप्रशस्तगुणोद्गमः ॥२८७ ॥ अत एव
तत्तत्कल्याणयोगेन, कुर्वन्सत्त्वार्थमेव सः ।
तीर्थकृत्त्वमवाप्नोति, परं सत्त्वार्थसाधनम् ॥२८८॥ . तस्य तस्य कल्याणस्य-परिशुद्धप्रवचनाधिगंमातिशायिधर्मकथाऽविसंवादिनिमित्तादिलक्षणस्य योगेन-व्यापारणेन कुर्वन्-विदधानः सत्त्वार्थमेवमोक्षबीजाधानादिरूपं न त्वात्मम्भरिरपि, स-वरबोधिमान् किमित्याह तीर्थकृत्त्वं तीर्थकरत्वरूपं अवाप्नोति-लभते । कीदृशमित्याह परं-प्रकृष्टं सत्त्वार्थसाधनं भव्यसत्त्वप्रयोजनकारि ॥२८८॥ तथा
चिन्तयत्येवमेवैतत् स्वजनादिगतं तु यः ।
तथानुष्ठानतः सोऽपि, धीमान् गणधरो भवेत् ॥२८९॥ चिन्तयत्येवमेव-पूर्वोक्तप्रकारेणैव एतद्भवादुत्तारणम् 'स्वजनादिगतं तु'स्वजनमित्रदेशादिविशेषगतं पुनः य उक्तरूपो बोधिप्रधानो जीवः, तथानुष्ठानत:
१. कष्टरूपात्-A;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org