________________
२३०
योगबिन्दु सूत्र : २८२-२८३-२८४-२८५ 'व्याधितस्य'-सञ्जातव्याधेः, 'महौषधात्-'तथाविधक्वाथपानादिरूपात् ।।२८१ ॥ अथ ग्रन्थिभेदमेव व्याचष्टे
भेदोऽपि चास्य विज्ञेयो, न भूयो भवनं तथा ।
तीव्रसंक्लेशविगमात्, सदा निःश्रेयसावहः ॥२८२॥ 'भेदोऽपि च'-न केवलं भेद आनन्द इत्यपिचशब्दार्थः, अस्य ग्रन्थेविज्ञेयः किमित्याह 'न भूय:'-पुनः ‘भवनं'-भावः, तथा यथाप्रागुक्त (प्राकुत) इत्याह, 'तीव्रसंक्लेशविगमात्'-अतिदृढकषायोदयविरहात् सदा-सर्वकालं निःश्रेयसावहः-निर्वाणहेतुः ॥२८२॥ अत्रैवाभिप्रायान्तरमाह
जात्यन्धस्य यथा पुंसश्चक्षुर्लाभे शुभोदये ।
सद्दर्शनं तथैवास्य, ग्रन्थिभेदेऽपरे जगुः ॥२८३॥ जात्यन्धस्य-जन्मकालादारभ्यान्धस्य यथा पुंसः' कस्यचित्, चक्षुर्लाभेकमलदलकोमलामलावलोकलोचनयुगलप्राप्तौ व सतीत्याह 'शुभोदये' तथाविधप्राग्भवोपात्ताऽद्भुतभूतपुण्यपरिपाके सति 'सद्दर्शनं' भवति । तथैवास्याऽपुनर्बन्धकस्य ग्रन्थिभेदेऽपरे-योगिविशेषा: जगुर्गीतवन्त इति ॥२८३॥ ततः
अनेन भवनैर्गुण्यं, सम्यग्वीक्ष्य महाशयः ।
तथाभव्यत्वयोगेन, विचित्रं चिन्तयत्यसौ ॥२८४॥ अनेन-सद्दर्शनेन भवनैर्गुण्यं-जरामरणादिव्यसनबहुलतया संसारनिगुणभावम्, सम्यग्-यथावत् वीक्ष्य-विलोक्य महाशयः-प्रशस्तपरिणाम: तथाभव्यत्वयोगेनोक्तरूपेण विचित्रं-नानारूपम् चिन्तयति-भावयति असौ भिन्नग्रन्थिजन्तुः ॥२८४॥ एतदेव दर्शयति
मोहान्धकारगहने, संसारे दुःखिता बत ।
सत्त्वाः परिभ्रमन्त्युच्चैः, सत्यस्मिन्धर्मतेजसि ॥२८५॥ मोहान्धकारगहने - मिथ्यात्वादिमोहनीयध्वान्तबहुले संसारे - भवे दुःखिताः-सञ्जातदु:खा बत'-इत्यामन्त्रणे सत्त्वाः'-प्राणिन: परिभ्रमन्ति सञ्चरन्ति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org