________________
योगबिन्दु सूत्र : २७८-२७९-२८०-२८१ - २२९ बीजसिद्ध्यादीनामुक्तरूपाणामपेक्षया-आलम्बनेन आत्मनो-जीवस्य सहजाजीवसमानकालभाविनी चित्रा-नानारूपा । किमित्याह 'तथाभव्यत्वमिति' एतत्प्रागुक्तस्वरूपं, अत:-अस्माद्धेतोः ॥२७८ ॥ किमित्याह
वरबोधेरपि न्यायासिद्धि! हेतुभेदतः । __ फलभेदो यतो युक्तस्तथा व्यवहितादपि ॥२७९ ॥
'वरबोधेरपि'-सम्यक्त्वलक्षणाया 'अपि न्यायाद् युक्तेः सिद्धिः-सम्भवः, किं पुनर्योग्यताया इत्यपिशब्दार्थः ।'नो हेतुभेदतो'-धर्माचार्यादिवैचित्र्यलक्षणात् किं तु स्वयोग्यतावैचित्र्यात् 'फलभेदः'-कार्यनानात्वम् 'यतो'-हेतुभेदात् 'युक्तो'-घटमानः स्यात् 'तथा'-तेन प्रकारेण 'व्यवहितादपि'-किं पुनरव्यवहितादित्यपिशब्दार्थः । इति स्वगत एव योग्यताभेदः सर्वत्र कार्यभेदनिबन्धनं प्रतिपत्तव्यमिति तात्पर्यमिति ॥२७९ ॥ एवं च सति यत्सिद्धं तदाह
तथा च भिन्ने दुर्भदे, कर्मग्रन्थिमहाचले ।
तीक्ष्णेन भाववज्रेण, बहुसंक्लेशकारिणि ॥२८०॥ 'तथा च'-योग्यताभेदस्य फलभेदहेतुत्वे च सति ‘भिन्ने' विदारिते 'दुर्भेदे' कृच्छ्रविदारणीये कर्मग्रन्थिरेवोक्तरूप: 'महाचलो'-हिमवदादिरूपः तत्र, केनेत्याह तीक्ष्णेन'-निशितेन भाववज्रेण'-अपूर्वकरणभावाशनिना, कीदृशे कर्मग्रन्थिमहाचल इत्याह 'बहुसंक्लेशकारिणि'-सम्यग्दर्शनोपघात(क)कषायोदयहेतौ ॥२८॥ किमित्याह
आनन्दो जायतेऽत्यन्तं, तात्त्विकोऽस्य महात्मनः । . सद्वयाध्यभिभवे यद्वद्वयाधितस्य महौषधात् ॥२८१॥
'आनन्द:'-प्रमोद: 'जायते'-समुद्भवति अत्यन्तं-अतीव 'तात्त्विक:'परमार्थभावः अस्य-भिन्नग्रन्थे: महात्मनः-प्रशस्तस्वभावस्य । अत्र दृष्टान्तमाहसति पारमार्थिके 'व्याध्यभिभवे'-कुष्ठादिव्याधिनिग्रहे, 'यद्वत्'-यथा
२. 'अपि' इति AB.C. प्रतिषु नास्ति;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org