SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २२८ योगबिन्दु सूत्र : २७५-२७६-२७७-२७८ चित्रं च-नाना रूपं पुनः देहिनाम् । कथमित्याह तथा-तत्प्रकारा ये कालादय:कालस्वभावादयः कारणप्रकारास्तेषां भेदेन-वैचित्र्येण बीजस्य-धर्मप्रशंसादेः, सिद्धि:-लाभ:,आदिशब्दाद्धर्मचिन्ताश्रवणानुष्ठानादिग्रहः तेषां भावतो-भावात् ॥२७५ ॥ एतदेवाधिकृत्याह सर्वथा योग्यताऽभेदे तदभावोऽन्यथा भवेत् । - निमित्तानामपि प्राप्तिस्तुल्या यत्तनियोगतः ॥२७६ ॥ सर्वथा-सर्वैः प्रकारैः योग्यताया अभेदे-एकाकारायां योग्यतायामित्यर्थः, तदभावश्चित्रबीजसिद्ध्याद्यभावः, अन्यथा-पूर्वोक्तार्थानभ्युपगमे सति भवेत् सम्पद्येत । नन्वेकाकारायामपि योग्यतायां सहकारिभेदेन फलभेदोपपत्तेः किं योग्यतावैचित्र्याभ्युपगमेनेत्याशंक्याह 'निमित्तानामपि'-कालादीनां 'प्राप्तिः'सन्निधानलक्षणा सर्वयोग्यतानां, तुल्या-समा भवेत्, किं पुनर्योग्यता, परमते योग्यतायास्तुल्येत्यपिशब्दार्थः । यत्-यस्मात् तन्नियोगत:-योग्यतापारवश्यात्, तुल्यायां हि सत्त्वेषु योग्यतायां सहकारिणोऽपि तुल्या एव भवेयुः, तुल्ययोग्यतासामर्थ्याक्षिप्तत्वात्तेषाम्, इति सर्वत्र तुल्यफलतापत्तिरिति ॥२७६ ॥ अत्रैव विपर्यये बाधकमाह अन्यथा योग्यताभेदः सर्वथा नोपपद्यते । निमित्तोपनिपातोऽपि यत्तदाक्षेपतो ध्रुवम् ॥२७७॥ अन्यथा-सहकारिणां तुल्यत्वाभावे, योग्यताया अभेदस्तुल्यता, सर्वथा नोपपद्यते-घटते । कुत इत्याह-निमित्तानामुक्तरूपाणां कालादीनामुपनिपातः सन्निहितता, किं पुनर्योग्यतासाध्यं फलमित्यपिशब्दार्थः, यद्-यस्मात्, तदाक्षेपतस्तुल्ययोग्यताकर्षणाद्, ध्रुवं निश्चितं भवेत् ॥२७७॥ अथ योग्यता एव तथाभव्यत्वमिति व्याचष्टे योग्यता चेह विज्ञेया बीजसिद्धयाद्यपेक्षया । आत्मनः सहजा चित्रा तथाभव्यत्वमित्यतः ॥२७८ ॥ योग्यता च-योग्यभावः पुनर्जीवानां इह-प्रक्रमे विज्ञेया-अवगन्तव्या १. रूपं च पुन:-B.C.; २. सर्वयोग्यानां-AB:; Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy