SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २२७ योगबिन्दु सूत्र : २७१-२७२-२७३-२७४-२७५ युक्तिमद्युक्तिसङ्गतम् ॥२७१॥ युक्तिमेवाह परार्थरसिको धीमान् मार्गगामी महाशयः । गुणरागी तथेत्यादि सर्वं तुल्यं द्वयोरपि ॥२७२॥ परार्थरसिक:-परोपकारबद्धचित्तः 'धीमान्'-बुद्ध्यनुगतः 'मार्गगामी' कल्याणप्रापकपथयायी महाशय:'-स्फीतचित्त: 'गुणरागी'-गुणानुरागवान् तथा' इति बोधिसत्त्वगुणान्तरसमुच्चयार्थः । इत्यादि' शास्त्रान्तरोक्तं सर्वं तुल्यं-समम् 'द्वयोरपि' सम्यग्दृष्टिबोधिसत्त्वयोः ॥२७२ ॥ अन्वर्थतोऽपि तुल्यतां दर्शयति यत्सम्यग्दर्शनं बोधिस्तत्प्रधानो महोदयः । सत्त्वोऽस्तु बोधिसत्त्वस्तद्धन्तैषोऽन्वर्थतोऽपि हि ॥२७३॥ यद्-यस्मात् सम्यग्दर्शनं-सम्यक्त्वं बोधिः, तत्प्रधानो-बोधिसारः 'महोदयः'- प्रशस्तगुणोद्गम: 'सत्त्व:'-सर्वजीव: अस्तु-भवतु बोधिसत्त्व: तत्-तस्मात् 'हन्त' इति पूर्ववत् 'एष' सम्यग्दृष्टिः अन्वर्थतोऽपि ह्यन्वर्थादपि किं पुनर्विशेषणैरित्यपिशब्दार्थ इति ॥२७३ ॥ अत्रैव पक्षान्तरमाह वरबोधिसमेतो वा तीर्थकृद्यो भविष्यति । तथाभव्यत्वतोऽसौ वा बोधिसत्त्वः सतां मतः ॥२७४॥ _ 'वरबोधिसमेतो वा'-तीर्थकरपदप्रायोग्यसम्यक्त्वसमेतो वा बोधिसत्त्व:' इति सम्बध्यते । स च कीदृश इत्याह तीर्थकृत्-तीर्थकर्ता यः जीव: भविष्यति -सम्पत्स्यते 'तथाभव्यत्वतः'-भव्यत्वं नाम सिद्धिगमनयोग्यत्वमनादिपारिणामिको भावः, तथाभव्यत्वं चैतदेव कालनैयत्यादिना प्रकारेण वैचित्र्यमापन्नं तस्मात् 'असो वा'-अयमेव बोधिसत्त्वः 'सतां'-साधूनां मतः ॥२७४॥ तथाभव्यत्वमेव भावयति सांसिद्धिकमिदं ज्ञेयं सम्यक् चित्रं च देहिनाम् । तथाकालादिभेदेन बीजसिद्धयादिभावतः ॥२७५॥ सांसिद्धिकमात्मसमकालोद्भवं इदं तथाभव्यत्वं ज्ञेयं सम्यग्-यथावत् १. कारप्रतिबद्धचित्त:-A; २. प्रशस्तसर्वगुणो-AB.C.; ३. सम्पद्यते-A; Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy