________________
: २२६
योगबिन्दु सूत्र : २६८-२६९-२७०-२७१ सागरोपमकोटीनां कोट्यो मोहस्य सप्ततिः । ..
अभिन्नग्रन्थिबन्धो यद् न त्वेकापीतरस्य तु ॥२६८॥ सागरोपमकोटीनां कोट्यो मोहस्य सप्ततिः कर्म ग्रन्थे प्रसिद्धाः अभिन्नग्रन्थे वस्योत्कर्षतो बन्धः यद्-यस्मात्कारणात् न तु-न पुनः एकापि सागरोपमकोटी बन्धः इतरस्य तु-भिन्नग्रन्थे: पुन: मिथ्यादृष्टेरपि सन् ॥२६८ ॥ अथोपसंहरनाह
तदत्र परिणामस्य भेदकत्वं नियोगतः ।
बाह्यं त्वसदनुष्ठानं प्रायस्तुल्यं द्वयोरपि ॥२६९॥ यतो ग्रन्थिमतिक्रम्यास्य न बन्ध: तत्-तस्माद्, अत्रानयोभिन्नग्रन्थीतरयोर्जीवयोर्विषये, परिणामस्याऽन्तःकरणस्य, भेदकत्वं-भेदकभावः नियोगतो नियमेन, बाह्यं तु बहिर्भाव: पुन: असदनुष्ठानं-अर्थोपार्जनादि प्रायो-बाहुल्येन तुल्यं-समम् द्वयोरप्यनयोरिति ॥२६९ ॥ किं च
अयमस्यामवस्थायां बोधिसत्त्वोऽभिधीयते ।
अन्यैस्तल्लक्षणं यस्मात् सर्वमस्योपपद्यते ॥२७०॥ अयं-भिन्नग्रन्थिार्जीव: अस्यां-सम्यग्दर्शनरूपायामवस्थायां 'बोधिसत्त्वो' वक्ष्यमाणनिरुक्त: 'अभिधीयते'-निर्दिश्यते अन्यैरपि'-सौगतैः, तल्लक्षणं बोधिसत्त्वलक्षणम् यस्मात्सर्वं-निरवशेषं अस्य-सम्यग्दृष्टेः उपपद्यते-घटते ॥२७० ॥ एतदेव दर्शयति
कायपातिन एवेह बोधिसत्त्वाः परोदितम् ।
न चित्तपातिनस्तावदेतदत्रापि युक्तिमत् ॥२७१॥ 'कायपातिन एव'- कायमात्रेणैव सावधक्रियावतारिण: 'इह'-जगति प्राक् प्रस्तुता बोधिसत्त्वाः, परोदितं-परनिरूपितमेतत् । व्यवच्छेद्यमाह-'न चित्तपातिनो'-न चित्तेन पतनशीला:, " तप्तलोहपदन्यासतुल्या वृत्तिः क्वचिद्यदि" इति वचनप्रामाण्यात् । तावच्छब्दः क्रमार्थः ।विस्तरतस्त्वन्यदपि परोदितमस्तीति भावः । एतद्बोधिसत्त्वलक्षणम् अत्रापि सम्यग्दृष्टौ किं पुनर्बोधिसत्त्वे,
१ ग्रन्थप्रसिद्धा:-B; २. जीव:-A.B.C.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org