________________
योगबिन्दु सूत्र : १६२-१६३-१६४-१६५
१९१ पूजनादन्यादृशत्वमिति ॥१६२॥ एतेषु च यच्चरमावर्ते स्यात्तदाह
चतुर्थमेतत्प्रायेण ज्ञेयमस्य महात्मनः ।
सहजाल्पमलत्वं तु, युक्तिरत्र पुरोदिता ॥१६३॥ चतुर्थं-तुरीयम्, एतदनुष्ठानं-तद्धेतुनामकं प्रायेण-बाहुल्येन ज्ञेयमस्य चरमावर्तभाज आदिधार्मिकस्य महात्मनः प्रशस्तभावस्य, अनाभोगादिभ्यः कदाचिदन्यथापि स्यादिदमिति प्रायोग्रहणम् । एतदपि कुतः, यतः 'सहजाल्पमलत्वं तु'-सहजो जीवसमानकालभावित्वेनाल्पस्तुच्छो मलो वक्ष्यमाणरूपो यस्य स तथा तद्भावस्तत्त्वं पुनः युक्ति:-हेतुः अत्राऽस्मिन्नर्थे पुरोदिता प्रागुपन्यस्तेति ॥१६३॥ अथ मलमेवाधिकृत्याह
सहजं तु मलं विद्यात् कर्मसम्बन्धयोग्यताम् ।
आत्मनोऽनादिमत्त्वेऽपि नायमेनां विना यतः ॥१६४॥ सहजंतु-सहजं पुनः, मलं विद्याज्जानीयात् कामित्याह कर्मसम्बन्धयोग्यतां ज्ञानावरणादिकर्मसंश्लेषनिमित्तभावम् कस्येत्याह आत्मनः-जीवस्य । कुत इत्याह 'अनादिमत्त्वेऽपि' बन्धस्य, न-नैव, अयं-बन्धः, एनां-योग्यतां जीवस्य विना अन्तरेण, यतः-यस्मात्कारणात् । किलानादिमान् भावो गगनादिर्न कञ्चन हेतुं स्वस्वभावलाभेऽपेक्षते, बन्धश्च प्रवाहापेक्षयैवानादिमान्, ततो न जीवयोग्यतामन्तरेणैष उपपद्यते, अन्यथाऽनेकदोषप्रसङ्गात् ॥१६४॥ ___ एतदेव दर्शयति
अनादिमानपि ह्येष बन्धत्वं नातिवर्तते । ___योग्यतामन्तरेणापि भावेऽस्याति प्रसङ्गता ॥१६५॥
अनादिमानपि हि-आदिभूतबन्धकालविकलोऽपि प्रवाहापेक्षया किं पुनर्व्यक्तिमपेक्ष्यादिमानित्यपिहिशब्दार्थः एष बन्धः बन्धत्वं-जीवेन गृह्यमाणकार्मणवर्गणापुद्गलरूपतया कृतकत्वम् नातिवर्तते-ऽतिक्रामति । ततो यो यो बन्धः स स बध्यमानयोग्यतामपेक्षते, यथा वस्त्रकम्बलादीनां मञ्जिष्ठालाक्षादिरागरूपः, बन्धश्च जीवस्य कर्मणः संयोगः, तस्मादवश्यं तयोर्योग्यतामपेक्षत १. णैव A २. प्रसङ्गिता-AB. .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org