________________
___योगबिन्दु सूत्र : १५९-१६०-१६१-१६२ एतद्रागादिदं हेतुः श्रेष्ठो योगविदो विदुः । ...
सदनुष्ठानभावस्य शुभभावांशयोगतः ॥१५९॥ एतद्रागात्-सदनुष्ठानभावबहुमानात् इदं-आदिधार्मिककालभावि देवपूजाद्यनुष्ठानं क्रियमाणम् हेतुः कारणम् श्रेष्ठो-ऽवन्थ्यो वर्तते एतद्योगविदो विदुः-जानते, कस्य हेतुरित्याह 'सदनुष्ठानभावस्य-तात्त्विकदेवपूजाद्याचारपरिणामस्य ।कुत इत्याह 'शुभभावांशयोगतः'- मुक्त्यद्वेषेण मनाग्मुक्त्यनुरागेण वा शुभभावलेशसङ्गमात् ॥१५९॥
जिनोदितमिति त्वाहुर्भावसारमदः पुनः ।
संवेगगर्भमत्यन्तममृतं मुनिपुङ्गवाः ॥१६०॥ जिनोदितं-जिननिरूपितं 'इति तु' अनेनैवाभिप्रायेण विधीयमानं आहुर्बुवते 'भावसारं'- शुद्धश्रद्धाप्रधानम् । अदोऽनुष्ठानं पुनः तथा संवेगगर्भमन्तःप्रवेशितनिर्वाणाभिलाषम् अत्यन्तमतीव अमृतममरणहेतुत्वादमृतसंज्ञम् ‘मुनिपुङ्गवाः'- गौतमादिमहामुनय इति ॥१६० ॥ अथ प्रस्तुतमेवाधिकृत्याह
एवं च कर्तृभेदेन चरमेऽन्यादृशं स्थितम् ।
पुद्गलानां परावर्ते गुरुदेवादिपूजनम् ॥१६१॥ __एवं चाऽस्मिंश्चानुष्ठानपञ्चविधत्वे स्थिते सति कर्तृभेदेनाऽनुष्ठातृविशेषेण चरमे-ऽपश्चिमे अन्यादृशं-मुक्त्यद्वेषादेः पूर्वपरावर्तकालभाविनो देवादिपूजनाद्विलक्षणम् स्थितं-प्रतिष्ठितम् पुद्गलानां परावर्ते गुरुदेवादिपूजनमुक्तरूपमेवेति ॥१६१॥ एतदेव समर्थयति
यतो विशिष्टः कर्तायं तदन्येभ्यो नियोगतः ।
तद्योगयोग्यताभेदादिति सम्यग्विचिन्त्यताम् ॥१६२॥ यतः-यस्मात्कारणात् विशिष्टो-विलक्षणः कर्ता-देवपूजनादीनां अयं चरमावर्तवर्ती जन्तुः तदन्येभ्यः-प्राच्यपरावर्तवर्तिभ्यः कर्तृभ्यः, नियोगतोनियमेन । कुत इत्याह 'तद्योगयोग्यताभेदात्'-स चासौ योगयोग्यतायाः योगनिमित्तभावस्य भेदो विशेषस्तस्मात् इति-एवम् सम्यग्विचिन्त्यतांविमृश्यतामिति । पूर्वं ह्येकान्तेन योगाऽयोग्यस्यैव देवादिपूजनमासीच्चरमावर्ते तु समुल्लसितयोगयोग्यभावस्येति चरमावर्तदेवादिपूजनस्यान्वावर्तदेवादि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org