________________
योगबिन्दु सूत्र : १५५-१५६-१५७-१५८
१८९ इहलोकपरलोकफलस्पृहानुरूपाया आदिशब्दादनाभोगादेश्च यद्विधानं विशेषस्तस्मात् ॥१५५॥ विषादित्वमेव भावयन्नाह
विषं लब्ध्याद्यपेक्षात इदं सच्चित्तमारणात् ।
महतोऽल्पार्थनाज्ञेयं लघुत्वापादनात्तथा ॥१५६॥ विषं लब्ध्याद्यपेक्षातो-लब्धिकीर्त्यादिस्पृहालक्षणायाः सकाशात्, इदमनुष्ठानं वर्तते । कुत इत्याह सच्चित्तमारणात्-परिशुद्धान्त:करणपरिणामविनाशनात् महतोऽनुष्ठानस्य अल्पार्थनाद्- अतितुच्छलब्ध्यादिस्पृहणात्सकाशात् लघुत्वापादनं लघुभावाधानं तस्मात् । 'तथा' इति हेत्वन्तरभावनार्थः । ज्ञेयमिदं विषमिति ॥१५६॥
दिव्यभोगाभिलाषेण, गरमाहुर्मनीषिणः ।
एतद्विहितनीत्यैव कालान्तरनिपातनात् ॥१५७॥ दिव्यभोगाभिलाषेण-ऐहिकभोगनि:स्पृहस्य स्वर्गस्थानभवभोगाभिष्वङ्गरूपेण गरमनुष्ठानम् आहुर्मनीषिणो मतिमन्तः एतद्देवादिपूजाद्यनुष्ठानं 'विहितनीत्यैव'- सच्चित्तमारणादिरूपयैव, परं कालान्तरनिपातनात्कालान्तरेभवभवान्तररूपेऽनर्थसम्पादनाद् आत्मनः, किल विषं सद्य एव विनाशहेतुः गरश्च कालान्तरेणेत्येवमुपन्यस्तमिति ॥१५७॥
अनाभोगवतश्चैतदननुष्ठानमुच्यते।
सम्प्रमुग्धं मनोऽस्येति ततश्चैतद्यथोदितम् ॥१५८॥ अनाभोगवतश्च इहलोकपरलोकयोरपि संमूर्छनजतुल्यप्रवृत्तितया क्वचिदप्रणिहितमनसः पुनः पुंसः 'एतद्' गुरुदेवपूजाद्यनुष्ठानं तथाविधसमुदयादिवशाद्विधीयमानमपि अननुष्ठानमुच्यते-अनुष्ठानमेव न भवतीत्यर्थः । कुत एतदित्याह 'सम्प्रमुग्धं-सं इति सर्वतः प्रकर्षेण मुग्धं सन्निपातोपहतस्येव मोहम'नध्यवसायमात्ररूपमापन्नं मन:- अन्त:करणं अस्य-अनाभोगवतः 'इतिः' पादपरिसमाप्तौ । यत एवं 'ततश्च मनःसम्प्रमोहादेव हेतोः एतत्प्रागुक्तम् 'यथोदितं'-यथा निरूपितं तथैवेति ॥१५८॥
१. भवान्तररूपेऽनर्थ-A.C:; २. मनध्यवसायरूप-A.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org