________________
. १८८ योगबिन्दु सूत्र : १५२-१५३-१५४-१५५
अन्यावर्तेषु-चरमावर्तविलक्षणेषु, तत्पूर्वसेवारूपतयोपन्यस्तम् ध्रुवं-निश्चितम्, चरमे तु-चरमे पुनः परावर्ते अन्यथा-ऽन्यप्रकारं ज्ञेयम्, कुत इत्याह 'सहजाल्पमलत्वत:'- स्वाभाविककर्मबन्धयोग्यतालक्षणमलतुच्छभावात् ॥१५२ ॥ ततोऽपि किमित्याह
एकमेवह्यनुष्ठानं कर्तृभेदेन भिद्यते । ___सरुजेतरभेदेन भोजनादिगतं यथा ॥१५३॥ .
एकमेव ह्येकाकारमेव-अनुष्ठानं-देवतापूजनादि कर्तृभेदेन चरमाऽचरमावर्तवर्तितया कारकजन्तुनानात्वेन भिद्यते-विशिष्यते । दृष्टान्तमाहसरुजेतरभेदेन, भोजनादिगतं- भोजनपानशयनासनादिगतं, यथा-येन प्रकारेण एतस्य रोगवृद्धिहेतुत्वादन्यस्य च बलोपचयार्थत्वादिति ॥१५३॥ एतदेव द्रढयन्नाह
इत्थं चैतद्यतः प्रोक्तं सामान्येनैव पञ्चधा ।
विषादिकमनुष्ठानं विचारेऽत्रैव योगिभिः ॥१५४॥ इत्थमिदम्प्रकारम् 'चकार:' पूर्वोक्तभावनार्थः एतदनुष्ठानभेदलक्षणं वस्तु यतो-यस्मात्, प्रोक्तम् सामान्येनैव न तु चरमाऽचरमावर्तभेदमपेक्ष्य पञ्चधा-पञ्चभिः प्रकारैः, विषादिकं- विषगरादिभेदमनुष्ठानं प्रस्तुतमेव विचारे'पर्यालोचने अत्रैवाऽस्मिन्नेव योगमते पतञ्जलिप्रभृतिभिः योगिभिः ॥१५४॥ इदमेव दर्शयति
विषं गरोऽननुष्ठानं तद्धेतुरमृतं परम् ।
गुर्वादिपूजानुष्ठानमपेक्षादिविधानतः ॥१५५॥ विषं-स्थावरजङ्गमभेदभिन्नम् ततो विषमिव 'विषम्, एवं गरोऽपि योजनीयः परं गरः-कुद्रव्यसंयोगजो विषविशेषः, अननुष्ठानं- अनुष्ठानाभासम्, तथा तद्धेतुरनुष्ठानहेतुः, अमृतमिवामृतममरणहेतुत्वात् । परं-प्रकृष्टं, गुर्वादिपूजानुष्ठानम् प्रकृतमेव वर्तते । कुत इत्याह अपेक्षादिविधानतः- अपेक्षाया
१. पर्यालोचे-A.B.; २. विषभेदम् A.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org