________________
१०७
योगबिन्दु सूत्र : १४९-१५०-१५१-१५२ गुर्वादिपूजनान्नेह तथा गुण उदाहृतः ।
मुक्त्यद्वेषाद्यथात्यन्तं महापायनिवृत्तितः ॥१४९॥ गुर्वादिपूजनादुक्तरूपात्सकाशात् न-नैव इह पूर्वसेवायाम् 'तथा गुणः' पूजकोपकारः उदाहतो-मतिमद्भिः । मुक्त्यद्वेषाद्- गुर्वादिपूजाभावेऽपि यथात्यन्तमतीव गुणो; महापायनिवृत्तितो-महापायस्य संसारनामकस्याऽपारस्य पारकरणानिवृत्तेः ॥१४९ ॥
भवाभिष्वङ्गभावेन तथाऽनाभोगयोगतः।
साध्वनुष्ठानमेवाहुनॆतान् भेदान् विपश्चितः ॥१५०॥ भवाभिष्वङ्गभावन-भवप्रतिबन्धसत्तया द्वयोरनुष्ठानयोः 'तथा' इति हेत्वन्तरसमुच्चये अनाभोगयोगतः सम्मूर्छनजप्रवृत्तितुल्यतयाऽऽभोगविरहादेकत्रानुष्ठाने किमित्याह साध्वनुष्ठानमेव- परिपूर्णयत्यनुष्ठानमेव [परिपूर्णयत्यनुष्ठानमपि सदा] आहुः- ब्रुवते न-नैव साध्वनुष्ठानतयेति गम्यते । कानित्याह 'एतान्' वक्ष्यमाणान्, 'भेदान्' अनुष्ठानविशेषांस्त्रीन्विषादीन्, विपश्चित:विद्वांसः, एकान्तेनैव द्रव्यानुष्ठानत्वात्तेषामिति ॥१५०॥ अमुमेवार्थं भावयन्नाह
इहामुत्रफलापेक्षा, भवाभिष्वङ्ग उच्यते ।
तथाऽनध्यवसायस्तु स्यादनाभोग इत्यपि ॥१५१॥ ___ इह-मनुष्यभवे अमुत्र-स्वर्गादौ 'फलापेक्षा'-इह की.देरमुत्र च सुरविभूत्यादेः 'फलापेक्षा स्पृहारूपा किमित्याह-भवाभिष्वङ्ग उक्तरूपः, उच्यते-निगद्यत. इति, 'तथा' इति समुच्ये । अनध्यवसायस्तु विधीयमानानुष्ठानोचिताध्यवसायाभावः पुनः स्याद्-भवेत् 'अनाभोगो' यः प्रागुक्तः 'इत्यपि' एष एवेति ॥१५१ ॥ ततः किमित्याह
एतद्युक्तमनुष्ठानमन्यावर्तेषु तद्धवम् ।
चरमे त्वन्यथा ज्ञेयं सहजाल्पमलत्वतः ॥१५२॥ एतद्युक्तं-भवाभिष्वङ्गानाभोगसङ्गतम्, अनुष्ठानं- गुरुदेवादि पूजनरूपम् १. संसारनामकस्य पारकरस्यापारस्य पारकरणात् निवृत्तेः-B.C., करणेन निवृत्तेः-A.; २. फलस्यापेक्षा-A.B.C.; ३. पूजनारूपम्-A.B.C.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org