________________
योगबिन्दु सूत्र : १४६ - १४७ - १४८
अनेनापि प्रकारेण - लब्धिपूजाद्यर्थत्वरूपेण किं पुनरितरथेत्यपिशब्दार्थः द्वेषाभावोमुक्तयमत्सरः अत्र - द्रव्य श्रामण्ये तत्त्वत - ऐदम्पर्यात् 'हितस्तु'- हितः, पुनर्न तु द्रव्यक्रियैव यद्यस्मात्कारणात् तत्तस्मात् एतेऽपि द्रव्य श्रामण्यभाजः किं पुनस्तदन्य इत्यपिशब्दार्थः तथाकल्याणभागिन:- ग्रैवेयकाद्युत्पत्तिरूपश्रेयः स्थानभाजनमिति ॥ १४६ ॥ अथ प्रस्तुतमेवाधिकृत्याह
१८६
येषामेवं न मुक्तयादौ द्वेषो गुर्वादिपूजनम् ।
त एव चारु कुर्वन्ति नान्ये तद्गुरुदोषतः ॥ १४७ ॥ येषां-भव्यविशेषाणाम् एवं चरमपुद्गलावर्तवर्तित्वेन न-नैव मुक्त्यादौ मुक्तौ मुक्त्युपाये मुक्तिपथप्रस्थितेषु च जनेषु द्वेषो - मत्सरः । गुर्वादिपूजनं योगपूर्वसेवास्वभावम् त एव मुक्तयाद्यद्वेषिणः 'चारु' विधिसमन्वितं कुर्वन्ति, व्यवच्छेद्यमाह - 'नान्ये'- मुक्त्यादिद्वेषिणः कुत इत्याह 'तद्गुरुदोषत: स मुक्त्यादिद्वेषलक्षणो गुरुर्महान् यो दोषस्तस्मात् ॥ १४७ ॥ एतदेव भावयति
1.
सच्चेष्टितमपि स्तोकं गुरुदोषवतो न तत् । भौतहन्तुर्यथाऽन्यत्र पादस्पर्शनिषेधनम् ॥१४८॥
सच्चेष्टितमपि-सुन्दरमपि चेष्ठितमनुष्ठानम् गुरुदोषवतः - सच्चेष्टितापेक्षया बृहदपराधसमन्वितस्य ।न-नैव तत्सच्चेष्टितं वर्तते । दृष्टान्तमाह भौतहन्तुभतानां भस्मवृत्तीनां हन्तुर्घातकस्य "यथा' इति दृष्टान्तार्थः अन्यत्र सच्चेष्टिते कर्तव्ये पादस्पर्शनिषेधनं-पादस्पर्शस्य चरणसङ्घट्टनरूपस्य निषेधनं हन्तव्यान् भौतान्प्रतीत्येति । तथाहि -"किल कस्यचिच्छबरस्य कुतोऽपि प्रस्तावात् 'तपोधनानां पादेन स्पर्शनं महतेऽनर्थाय सम्पद्यते ' इति श्रुतधर्मशास्त्रस्य कदाचिन्मयूरपिच्छैः प्रयोजनमजायत । यदासौ निपुणमन्यत्रान्वेषमाणो न लेभे तदा श्रुतमनेन यथा भौतसाधुसमीपे तानि सन्ति । ययाचिरे च तानि तेभ्यः, परं न किंचिल्लेभे, ततोऽसौ शस्त्रव्यापारपूर्वकं तान्निगृह्य जग्राह तानि पादेन स्पर्शं च परिहृतवान् " यथास्य पादस्पर्शपरिहारो गुणोऽपि शस्त्रव्यापारेणोपहतत्वान्न गुणः किंतु दोष:, एवं मुक्तिद्वेषिणां गुरुदेवादिपूजनं योजनीयमिति ॥ १४८ ॥ एतदेवाह -
१. शबरस्य यथा - A.; २. तानि तेन तेभ्यः - A.B.C.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org