________________
योगबिन्दु सूत्र : १४४-१४५-१४६
१८५ व्यालस्य च दुष्टश्वापदभुजगलक्षणस्य यो दुर्ग्रहो- दुर्गृहीतत्वं तेन सन्निभः सदृशः । क इत्याह श्रामण्यदुर्ग्रहः असम्यक्तदङ्गीकारः, अस्वन्तःअसुन्दरपरिणामः, शास्त्रे योगस्वरूपनिरूपके ग्रन्थे, उक्तः निरूपितः, महात्मभि:पूर्वमुनिभिः । तथा च पठन्ति-'जह चेव उ मोक्खफला, आणा आराहिया जिणिंदाणं । संसारदुक्खफलया, तह चेव विराहिया नवरं ॥१॥ [पंचवस्तु ११९] __ननु दुर्गृहीतादपि श्रामण्यात् सुरलोकलाभो भवति, अतः कथमस्याऽस्वन्ततेत्याशंक्याह- ग्रैवेयक इत्यादि -
ग्रैवेयकाप्तिरप्येवं नातः श्लाघ्या सुनीतितः ।
यथाऽन्यायार्जिता सम्पद् विपाकविरसत्वतः ॥१४५॥ ग्रैवेयकाप्तिरपि-शुद्धसमाचारवत्सु साधुषु चक्रवर्त्यादिभिः 'परपुरुषैः पूज्यमानेषु दृष्टेषु सम्पन्नतत्पूजास्पृहाणां तथाविधान्यकारणवतां च केषाञ्चिव्यापन्नदर्शनानामपि प्राणिनां या नवमग्रैवेयकप्राप्तिः किं पुनः शेषसुरस्थानाप्तिरित्यपिशब्दार्थः एवमस्वन्तत्वेन न-नैव अतो दुर्गृहीतश्रामण्यात् श्लाघ्याप्रशंसनीया सुनीतितः- परिणामविमर्शकविचारात् । अत्र दृष्टान्तमाह 'यथाऽन्यायार्जिता'-चौर्यधूतरमणस्वामिद्रोहादिनाऽन्यायेन लब्धा सम्पत् - विभूतिर्न श्लाघ्या । कुत इत्याह विपाकविरसत्वत:परिणतिविरसभावात् । ते हि ग्रैवेयकेभ्यश्च्युता निर्वाणबीजस्यैकान्तेनाऽसत्त्वेनेहोदीर्णदुर्निवारमिथ्यात्वादिमोहा अत एव सर्वेष्वप्यकार्येष्वस्खलितप्रवृत्तयो नरकादिपातहेतुमुपाW पापप्राग्भारं पश्चादधस्तानरकभाजो भवन्तीति ॥१४५ ॥ अथ व्यापनदर्शनानामप्यखण्डद्रव्यश्रामण्यपरिपालनातो या नवमग्रैवेयकप्राप्तिः, तत्रापि मुक्तयद्वेष एव कारणमित्यभिधातुकामः प्राह
अनेनापि प्रकारेण द्वेषाभावोऽत्र तत्त्वतः ।
हितस्तु यत्तदेतेऽपि तथा कल्याणभागिनः ॥१४६॥ १. "यथैव तु मोक्षफला आजा आराधिता जिनेन्द्राणाम् ।
संसारदुःखफलका तथैव विराधिता नवरम् ॥" २. पदपुरुषै-A.C:;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org