________________
योगबिन्दु सूत्र : १४०-१४१-१४२-१४३-१४४ सज्ज्ञानादिश्च यो मुक्तेरुपायः समुदाहृतः । मलनायैव तत्रापि न चेष्टैषां प्रवर्तते ॥ १४१ ॥ 'सज्ज्ञानादिश्च' सम्यग्ज्ञानदर्शनचारित्ररूपः पुनः यो मुक्तेर्निर्वृतेः उपाय:- पन्थाः, समुदाहृतः तीर्थकरैः प्रज्ञप्तः तस्य 'मलनायैव'विनाशनिमित्तमेव, 'किं तु कदाराधनार्थमपि तत्रापि तस्मिन्नपि मुक्तयद्वेषे सति किं पुनस्तदनुराग इत्यपिशब्दार्थः न-नैव चेष्टा- मनोवाक्कायप्रवृत्तिरूपा एषां मुक्तयद्वेषवतां जन्तूनाम् प्रवर्तते समस्ति ॥ १४१ ॥
अथ मुक्तयुपायस्यैवाऽमलनादृष्टान्तात् मलनायाः फलमाह - स्वाराधनाद्यथैतस्य फलमुक्तमनुत्तरम् । मलनातस्त्वनर्थोऽपि महानेव तथैव हि ॥ १४२ ॥ स्वाराधनाद्-विधिवदनुवर्तनात् यथा येन प्रकारेण एतस्य मुक्तयुपायस्य फलं-कार्यम्, उक्तमनुत्तरं - सर्वफलातिशायि । मलनातस्तु- मलनायाः सकाशात्पुनः मुक्तयुपायस्यैव अनर्थोपि किं पुनराराधनातोऽनुत्तरं - फलमित्यपिशब्दार्थः । महानेव नरकादिपातरूपः । तथैव हि - स्वाराधनाफलप्रकारेणैव ॥ १४२ ॥ एतदेव भावयति
1
१८४
उत्तुङ्गारोहणात्पातो विषान्नात्तृप्तिरेव च ।
अनर्थाय यथात्यन्तं मलनापि तथेक्ष्यताम् ॥ १४३ ॥ उत्तुङ्गारोहणात्पर्वतशिखराद्यध्यासनात्, पातोऽधस्तात्पतनम्, विषान्नाद्विषमिश्रभोजनात्, तृप्तिरेव च - तृप्तिश्च, अनर्थायाऽकल्याणाय यथा-येन प्रकारेण, अत्यन्तं, मलनापि मुक्त्युपायस्य तथेक्ष्यतां अवलोक्यतामिति ॥ १४३ ॥ एतदेव समर्थयमान आह
अत एव च शस्त्राग्निव्यालदुर्ग्रहसन्निभः । श्रामण्यदुर्ग्रहोऽस्वन्तः शास्त्र उक्तो महात्मभिः ॥ १४४॥ अत एव-मुक्त्युपायमलनस्यानर्थहेतुत्वादेव हेतोः, चकारः पूर्वोक्तभावनार्थः, शस्त्राग्निव्यालदुर्ग्रहसन्निभः - शस्त्रस्य क्षुरिकादेः, अग्नेः प्रतीतरूपस्य,
१. पायस्यैको वाऽ - A.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org