________________
योगबिन्दु सूत्र : १३७-१३८-१३९-१४० १८३ रे सिद्धन्तिय ! बन्धणं खु मोक्खो न सो मोक्खो ॥१॥ तथा 'शास्त्रेष्वपि हि'-तथाविधस्मृतिपुराणरूपेषु 'किं पुनर्लोक' इत्यपिहीतिशब्दार्थः 'मूढानां' तत्त्वं प्रति व्यामोहवतां शास्त्रकृताम् कीदृशा इत्याह:- 'अश्रोतव्या'-श्रोतुमनर्हाः 'सदा'-सर्वकालं ‘सतां'-शिष्टानाम् ॥१३७॥ एतदेव दर्शयति
वरं वृन्दावने रम्ये क्रोष्टुत्वमभिवाञ्छितम् ।
न त्वेवाऽविषयो मोक्षः कदाचिदपि गौतम ॥१३८॥ - वरं-प्रधानम् वृन्दावने-यमुनानदीतटवर्तिनि मथुरोपवनविशेषे रम्येरमणीये क्रोष्टुत्वं-श्रृगालत्वम् अभिवाञ्छितं- अभिलषितम्, न त्वेव नैव पुन: अविषय:- कयाचित्क्रियया भावयितुमयोग्यः मोक्षोऽपवर्ग: । कदाचिदपिक्वाप्यवस्थाविशेषे वाञ्छितः । 'गौतम !' इति गालवेन निजशिष्यविशेषस्यामन्त्रणं कृतमिति ॥१३८॥
महामोहाभिभूतानामेवं द्वेषोऽत्र जायते ।।
अकल्याणवतां पुंसां तथा संसारवर्धनः ॥१३९॥ महामोहाभिभूतानामतिनिबिडमिथ्यात्वादिमोहनीय विपाकविसंस्थुलानाम् एवमुक्तप्रकारेण द्वेषोऽत्र-मुक्तौ जायते । अकल्याणवतां- संमुखीभूतातिप्रभूताशुभानां पुंसाम् 'तथा संसारवर्धन: ' तथा तत्प्रकारस्यानन्तकालप्रमितस्य संसारस्य वर्धनो वृद्धिहेतुः ॥१३९॥ विपर्यये गुणमाह
नास्ति येषामयं तत्र तेऽपि धन्याः प्रकीर्तिताः । ... भवबीजपरित्यागात् तथा कल्याणभागिनः ॥१४०॥
न-नैव . ' अस्ति-विद्यते येषां भव्यविशेषाणाम् अयं-द्वेषः तत्रमुक्तौ तेऽपि- किं पुनस्तत्रानुरागभाज इत्यपिशब्दार्थः धन्या-धर्मधनलब्धारः प्रकीर्तिताः । पुनरपि कीदृशा इत्याह भवबीजपरित्यागात्'- मनाक् स्वगतसंसारयोग्यतापरिहाणेः सकाशात्, तथा-तेन प्रकारेण चरमपुद्गलपरिवर्तव्यवधानादिना 'कल्याणभागिनः'- तीर्थकरादिपदप्रप्तिद्वारेण शिवशर्मभाज इति ॥१४०॥ किं
१. विपाकविषविसंस्थु-A.B.C.; .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org