________________
१८२
योगबिन्दु सूत्र : १३५-१३६-१३७
॥१॥” (आ.नि.) इति । अत्र कथानके डण्डानगारहन्तुर्यमुनराजस्य तत्पापशुद्ध्यर्थमङ्गीकृतप्रव्रज्यस्य साधुवधस्मरणे तद्दिनप्रतिपन्नाऽभोजनाभिग्रहस्य षण्मासान्यावज्जातव्रतपर्यायस्य सम्यक्सम्पन्नाराधनस्य किल न क्वचिद्दिने भोजनमजनीति, तत् तपः 'तत्तत्पापापेक्षया पापसूदनमिति । कर्मसूदनतपस्तु प्रतिकर्मेत्थमाचरितं दृश्यते - उपवासैकाशनैकसिक्थैकस्थानकै कदत्तिनिर्विकृतिकाचाम्लाष्टकवलानि । कीदृशमेतदित्याह 'चित्रमन्त्रजपप्रायं' - चित्रो नानाविधः " औं ह्रीं अ सि आ उ सा नमः" इत्यादिमन्त्रस्मरणरूपो जपः प्रायो बहुलो यत्र तत्तथा । ' प्रत्यापत्तिविशोधितं' प्रत्यापत्तिस्तत्तदपराधस्थानान्महता संवेगेन प्रतिक्रान्तिस्तया विशोधितं विशुद्धिमानीतम् ॥१३५ ॥ अथ मुक्त्यद्वेषमभिधित्सुराह
कृत्स्नकर्मक्षयान्मुक्तिर्भोगसंक्लेवर्ज ।
भवाभिनन्दिनामस्यां द्वेषोऽज्ञाननिबन्धनः ॥ १३६॥ कृत्स्नकर्मक्षयाद् - निखिलमलप्रलयात्, मुक्तिः-निर्वृति: सञ्जायते, कीदृशीत्याह ‘भोगसंक्लेशवर्जिता' - इन्द्रियार्थाभिष्वङ्गरूपदुःखविकला । ततो भवाभिनन्दिनामत्यन्तासारमपि संसारं प्रति बहुमानवतां जन्तूनाम् 'अस्यां'-मुक्तौ सर्वाङ्गसुखखानिभूतायां केषांचिद्यो 'द्वेषो' - मत्सरः, सोऽज्ञाननिबन्धनोमुक्तिस्वरूपापरिज्ञाननिमित्तः । न हि स्वभावसुन्दरे वस्तुनि तथैव च ज्ञाते कश्चिद्विपश्चिद् द्वेषं प्रतिपद्यत इति ॥१३६॥
न च वक्तव्यं असौ द्वेषोऽसम्भव्येव इत्याशंक्याह
श्रूयन्ते चैतदालापा लोके तावदशोभनाः । शास्त्रेष्वपि हि मूढानामश्रोतव्याः सदा सताम् ॥१३७॥ श्रूयन्ते - आकर्ण्यन्ते चकारः पूर्वोक्तभावनार्थ:- एतदालापा- मुक्तिद्वेषवचनानि लोके - संव्यवहारार्हे जने तावच्छब्दः क्रमार्थः ' अशोभना' - अश्रेयोरूपाः । तथा च पठन्ति - जइ तत्थ नत्थि सीमंतिणीओ मणहरपियंगुवन्नाओ । ता
१. तत्पापापेक्षया-A.B.; २. द्वेषोऽसम्भाव्यते - A.;
३. " यदि तत्र नास्ति सीमन्तिन्यो मनोहरप्रियंगुवर्णाः ।
तत् रे ! सिद्धान्तिक ! बंधनं खलु मोक्षो न स मोक्षः ॥ १ ॥ "
Jain Education International
-
For Personal & Private Use Only
www.jainelibrary.org