________________
योगबिन्दु सूत्र : १३३-१३४-१३५
१८१
सन्तापनादिभेदेन, कृच्छ्रमुक्तमनेकधा ।
अकृच्छ्रादतिकृच्छेषु, हन्त सन्तारणं परम् ॥१३३॥ इह कृच्छ्रमनेकधा यथा-सन्तापनकृच्छं, पादकृच्छ्, सम्पूर्णकृच्छ्रमित्यादि । तत्र सन्तापनकृच्छ्रम् - "त्र्यहमुष्णं पिबेदम्बु, त्र्यहमुष्णं घृतं पिबेत् । त्र्यहमुष्णं पिबेन्मूत्रं, त्र्यहमुष्णं पिबेत्पयः ॥१॥ तथा-एकभक्तेन भुक्तेन, तथैवाऽयाचितेन च । उपवासेन चैकेन पदकृच्छ्रे विधीयते ॥२॥" सम्पूर्णकृच्छं पुनरेतदेव चतुर्गुणमिति ततः 'सन्तापनं' सन्तापनकृ मादौ यस्य स तथा । स चासौ भेदश्च 'विशेषस्तेन कृच्छ्रनामकम्, उक्तमनेकधानेकप्रकारं तपः शास्त्रेषु । कीदृशमित्याह-अकृच्छ्रात्-अकृच्छ्रेण अतिकृच्छ्रेषु- नरकादिपातफलेष्वरपराधेषु विषये 'हन्त' इति प्रत्यवधारणे 'पुनः सन्तारणं-सन्तरणहेतु परं-प्रकृष्टं प्राणिनामिति ॥१३३ ॥
मासोपवासमित्याहुर्मृत्युनं तु तपोधनाः ।
मृत्युञ्जयजपोपेतं परिशुद्धं विधानतः ॥ १३४॥ मासं यावदुपवासो यत्र तत्तथा इत्येतत् आहुरुक्तवन्त: मृत्युनं तुमृत्युघ्ननामकं पुनस्तपः तपोधनाः तपःप्रधाना मुनयः । मृत्युञ्जयजपोपेतंपञ्चपरमेष्ठिनमस्कारादिरूपं मृत्युञ्जयसंज्ञमन्त्रस्मरणसमन्वितम् परिशुद्धमिहलोकाशंसादिपरिहारेण विधानतः- कषायनिरोधब्रह्मचर्यदेवपूजादिरूपाद्विधानात् ॥१३४॥
पापसूदनमप्येवं तत्तत्पापाद्यपेक्षया ।
चित्रमन्त्रजपप्रायं प्रत्यापत्तिविशोधितम् ॥ १३५॥ पापसूदनमपि-किं पुनर्मृत्युघ्रमित्यपिशब्दार्थ: 'एवं'-परिशुद्धं विधानतश्च ज्ञेयम् । कथमित्याह- तत्तत्पापाद्यपेक्षया-तत्तचित्ररूपं यत्पापं साधुद्रोहादि आदिशब्दाज्ज्ञानावरणाद्यष्टविधं कर्मापेक्ष्येति, तत्र "महुराए जउणराया, जउणावः य डण्डमणगारे । वहणं च कालकरणं, सक्कागमणं च पव्वज्जा
१. विशेषस्तेन कृच्छं कृच्छ्रनामकम्-A.B.C:; २. पुनः इति-A.B.C. प्रतिषु नास्ति; ३. विधकर्मा-A.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org