________________
१८०
___ योगबिन्दु सूत्र : १३०-१३१-१३२ ।। १७लोकाचारानुवृत्तिश्च १८सर्वत्रौचित्यपालनम् । .
१९प्रवृत्तिर्हिते नेति, प्राणैः कण्ठगतैरपि ॥१३०॥ 'लोकाचारानुवृत्तिश्च'-बहुजनरूढाऽविरोधिलोकव्यवहारानुपालनरूपा सर्वत्र स्वपक्षे परपक्षे च 'औचित्यपालनं'-समुचिताचाररूपम् प्रवृत्तिर्गर्हिते कुत्सिते कुलदूषणादौ न-नैव । इतिः प्राग्वत् ।प्राणैरुच्छ्वासरूपैः कण्ठगतैरपिगलस्थानप्राप्तः, किं पुनः स्वभावस्थैरित्यपिशब्दार्थः. ॥१३०॥ अथ तपः प्राह
तपोऽपि च यथाशक्ति, कर्तव्यं पापतापनम् ।
तच्च चान्द्रायणं कृच्छू, मृत्युनं पापसूदनम् ॥१३१॥ तपो पि च-किं पुनः प्रागुक्तमनुष्ठानम् यथाशक्ति-यस्य यावती शक्ति:तया कर्तव्यं'-विधेयम् । कीदृशमित्याह ‘पापतापनं'-स्मृत्यादिप्रसिद्धं तथाविधापराधवशसमुत्पन्नाशुभकर्मतापकारि 'तच्च'-तत्पुनः १चान्द्रायणं २कृच्छ्रे ३मृत्युघ्नं ४पापसूदनं इति चतुष्प्रकारम् ॥१३१॥ इदमेव श्लोकचतुष्टयेन व्याचष्टे
एकैकं वर्धयेद् ग्रासं, शुक्ले कृष्णे च हापयेत । - भुञ्जीत नामावास्यायामेष चान्द्रायणो विधिः ॥१३२॥
एकैकं-न तु द्रव्यादिरूपम् वर्धयेद्-वृद्धिमानयेत् ग्रासं-कवलमन्नस्य, शुक्ले शुक्लपक्षे प्रतिपत्तिथरारभ्य यावत्पौर्णमास्यां पञ्चदश कवला: । तथा कृष्णे च कृष्णपक्षे पुनश्चतुर्दशादौ कृत्वा हापयेद्-हीनं कुर्यादेकैकं 'ग्रासमेवं यावत् अमावास्या, ततो 'भुञ्जीत नामावस्यायां'-तस्यां सकलकवलक्षयात् । 'एष' उक्तरूपश्चान्द्रायण:- चन्द्रेण वृद्धिभाजा क्षयभाजा च सहेयते गम्यते यत्तच्चान्द्रायणं, तस्यायमिति चान्द्रायणो 'विधि:'-करणप्रकार इति । एतच्च चान्द्रायणं लौकिकशास्त्रोक्तं प्रथमधार्मिकयोग्यतया चेहोपन्यस्त, लोकोत्तरं त्वित्थमन्यथा च शास्त्रान्तरादवसेयमिति ॥१३२॥
१. ग्रासमेकं-A.; २. सह ईयते-A.; ३. यत्तच्चान्द्रायणं-A.C.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org