________________
१७९
योगबिन्दु सूत्र : १२५-१२६-१२७-१२८-१२९ तदत्यन्तादरणीयताज्ञापनार्थमिति ॥१२५ ॥ अथ सदाचारमाह
श्लोकापवादभीरुत्वं, रदीनाभ्युद्धरणादरः ।
३कृतज्ञता ४सुदाक्षिण्यं, सदाचारः प्रकीर्तितः ॥१२६॥ 'लोकापवादभीरुत्वं'- यतः कुतोऽपि लोकापवादान्मरणान्निर्विशिष्यमाणाद् भीतभाव: । 'दीनाभ्युद्धरणादर' - उपलक्षणत्वाद्दीनानाथोपकारप्रयत्नः । 'कृतज्ञता'-परकृतोपकारपरिज्ञानम् ।सुदाक्षिण्यं-गम्भीरधीरचेतसो निर्मत्सरस्य च प्रकृत्यैव परकृत्याभियोगपरता । किमित्याह 'सदाचारः' प्रागुपन्यस्तः प्रकीर्तितः-प्रज्ञप्तः ॥१२६ ॥ तथा -
५सर्वत्र निन्दासन्त्यागो, ६वर्णवादश्च साधुषु ।
७ आपद्यदैन्यमत्यन्तं ८ तद्वत्सम्पदि नम्रता ॥१२७॥ 'सर्वत्र'- जघन्यमध्यमोत्तमजनेषु 'निन्दासन्त्याग:'-परिवादापनोदः 'वर्णवादश्च'-प्रशंसारूपः, 'साधुषु'- सदाचारेषु जनेषु 'आपदि'-व्यसने अदैन्यमदीनभाव: अत्यन्तमतीव्र, तद्वदापद्यदैन्यवत् 'सम्पदि' विभवसमागमे नम्रताऔचित्येन नमनशीलता॥ १२७॥ तथा -
९प्रस्तावे मितभाषित्वमविसंवादनं१० तथा ।
११प्रतिपत्रक्रिया चेति, कुलधर्मानुपालनम्१२ ॥१२८॥ 'प्रस्तावे'-भाषणावसर उपलब्धे, मितभाषित्वं-मितहितभाषणशीलता, 'अविसंवादनं'- विसंवादवतः स्ववचनस्याकरणम् । तथा प्रतिपत्रक्रिया चेति' प्रतिपन्नस्य व्रतनियमादेः क्रिया-निर्वाहणं, इतिः पदसमाप्तौ । कुलधर्मानुपालनं अविरुद्धस्वकुलाचारानुवर्तनम् ॥१२८॥ . १३असद्वययपरित्यागः, स्थाने चैतक्रिया१४ सदा ।
. १५प्रधानकार्ये निर्बन्धः, १६प्रमादस्य विवर्जनम् ॥१२९॥
असद्व्ययपरित्यागो-ऽसत: पुरुषार्थानुपयोगित्वेनासुन्दरस्य व्ययस्य वित्तविनियोगरूपस्य परित्यागः, स्थाने च-स्थान एव देवपूजनादौ एतक्रिया व्ययक्रिया सदा सर्वकालम्, 'प्रधानकार्ये'-विशिष्टफलदायिनी प्रयोजने निर्बन्धः आग्रहः, प्रमादस्य -मद्यपानादिरूपस्य विवर्जनमुज्झनम् ॥१२९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org