________________
. १७८
योगबिन्दु सूत्र : १२२-१२३-१२४-१२५ अपचास्तुस्वयमेवापाचकाः पुनरुपलक्षणत्वात्परैरपाचयितारः 'पच्यमानानननुमन्तारश्च लिङ्गिन एव विशेषतो-विशेषेण पात्रमिति । तथा स्वसिद्धान्ताऽविरोधेन-स्वशास्त्रोक्तक्रियानुल्लङ्घनेन वर्तन्ते'-चेष्टन्ते ये सदैव हि-सर्वकालमेवेति ॥१२२॥
दीनान्धकृपणा ये तु, व्याधिग्रस्ता विशेषतः ।
नि:स्वाः क्रियान्तराऽशक्ता, एतद्वर्गो हि मीलकः ॥१२३॥ दीनान्धकृपणा-दीनाः क्षीणसकलपुरुषार्थशक्तयः, अन्धा:- नयनरहिताः, कृपणा:- स्वभावत एव सतां कृपास्थानम् । ये तु ये च 'व्याधिग्रस्ता:'कुष्ठाद्यभिभूताः 'विशेषतो'-अत्यन्तम् तथा 'निःस्वा' -निर्धनाः कीदृशा एत इत्याह 'क्रियान्तराशक्ता'-निर्वाहहेतुव्यापारान्तराऽसमर्था ये प्राणिविशेषाः किमित्याह 'एतद्वर्गः'- दीनादिवर्गो यः प्रागुद्दिष्ट: हिः पादपूरणार्थ: 'मीलक:'दीनादीनामेवेति ॥१२३॥ विधिवदित्युक्तमथ तदेव व्याचष्टे
दत्तं यदुपकाराय, द्वयोरप्युपजायते ।
नातुरापथ्यतुल्यं तु तदेतद्विधिवन्मतम् ॥१२४॥ दत्तं-वितीर्णम् यदन्नादि उपकारायाऽनुग्रहाय द्वयोरपि- दायकग्राहकयोः, उपजायते-न पुनरेकस्यैवेत्यपिशब्दार्थः । व्यतिरेकमाह न-नैव आतुरापथ्यतुल्यं तु ज्वरादिरोगविधुरस्य घृतादिदानसदृशं पुन: यन्मुसलहलादि तद्दायकग्राहकयोरपकारि एतद्दत्तं विधिवन्मतमभीष्टम् ॥१२४॥ अथ दानमेव स्तुवन्नाह -
धर्मस्यादिपदं दानं, दानं दारिद्र्यनाशनम् ।
जनप्रियकरं दानं, दानं कीर्त्यादिवर्धनम् ॥ १२५॥ धर्मस्य-श्रेयोरूपस्य 'आदिपदं' प्रथमस्थानम् दानमुक्तलक्षणम्, 'दानं दारिद्र्यनाशनं'- इहपरभवयोर्लाभान्तरायकर्मोपघातेन विशिष्टलाभसम्भवाद्दौर्गत्यापोहकारि 'जनप्रियकरं'- लोकसंतोष'हेतुर्दानम्, 'दानं कीर्त्यादिवर्धनं'-कीर्तिः "स्वचित्तसंतोषजननसौभाग्यादिवृद्धिहेतुः" । यदत्र पुन: पुनर्दानशब्दोच्चारणं
१. पच्यमानाननुमन्तारच-A.B.C:; २. यदूखल-A.B.C:; ३. हेतु दानम्-A.B.C.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org