________________
१९२
योगबिन्दु सूत्र : १६५-१६६-१६७-१६८
इति । अत्रैव विपक्षे बाधामाह-योग्यतां योगकषायपरिणतिरूपाम्, अन्तरेणापि - विना 'किं पुनः प्राच्यप्राच्यतरादिबन्धमि 'त्यपिशब्दार्थः भावे सत्तायाम् अस्यबन्धस्याभ्युपगम्यमाने, 'अतिप्रसंगता - 'ऽतिव्याप्तेः सत्त्वमिति ॥ १६५ ॥ इदमेव भावयति
एवं चानादिमान्मुक्तो योग्यताविकलोऽपि हि ।
बध्येत कर्मणा न्यायात् तदन्याऽमुक्तवृन्दवत् ॥ १६६ ॥ एवं चातिप्रसंगे च सति अनादिमान्मुक्तः - सदाशिवरूपः परपरिकल्पितः किमित्याह ‘योग्यताविकलोऽपि हि प्रस्तुतयोग्यतारहितः किं पुनरतद्युक्त इत्यपिहिशब्दार्थः । बध्येत पारवश्यमानीयेत, कर्मणा - अदृष्टसंज्ञेन, न्यायात्योग्यतावैकल्याविशेषलक्षणात् । दृष्टान्तमाह' तदन्यामुक्तवृन्दवत्'- तस्मादनादिमतो मुक्ताद्यदन्यदमुक्तवृन्दं संसारिजीवलक्षणं तद्वत् ॥१६६॥
तदन्यकर्मविरहाद् न चेत्तद्वन्ध इष्यते ।
तुल्ये तद्योग्यताऽभावे ननु किं तेन चिन्त्यताम् ॥१६७॥ अत्र पर:- तदन्यकर्मविरहात् तस्मात्संप्रतिबद्धुमिष्टाद्यदन्यत्प्राक्कालबद्धं कर्म तद्विरहात्, न चेद्यदि तद्बन्धस्तस्याऽनादिमतो मुक्तस्य बन्ध इष्यतेऽभिमन्यते आचार्य:, तुल्ये समाने सर्वजन्तुषु तद्योग्यताऽभावे कर्मबन्धयोग्यताया विरहे 'ननु' इति परपक्षाक्षमायाम्, किं प्रयोजनं 'तेन' - प्राच्यकर्मबन्धविरहेणोत्तरतया परिकल्पितेन चिन्त्यतां परिभाव्यतामेतत् । अयमभिप्रायः- यदि योग्यतामन्तरेणापि शेषसंसारिणां कर्मबन्धोऽभ्युपगम्यते तदाऽनादिमुक्तेऽपि सोऽस्तु उभयत्रापि योग्यताविरहाऽविशेषात् ॥ १६७ ॥ अथोपसंहरन्नाह
तस्मादवश्यमेष्टव्या स्वाभाविक्येव योग्यता ।
तस्यानादिमती सा च मलनान्मल उच्यते ॥ १६८ ॥ तस्मादनादिमुक्तकर्मबन्धप्रसंगाद्धेतोः अवश्यं-नियमेन एष्टव्या 'स्वाभाविक्येव' - स्वभावभूतैव, योग्यता - कर्मबन्धं प्रति तस्यात्मनः अनादिमतीअनादिकालप्रवृत्ता सा च योग्यता पुनः मलनात्- जीवस्वभावविष्कम्भणात्,
१. अतिप्रसङ्गिता - A.B.C.; २. ऽतिव्याप्तिः - A; ३. तदना-A;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org