________________
-
१७४
योगबिन्दु सूत्र : ११४-११५-११६-११७ तु'-औचित्यवृत्त्या पुनः, इदं-पूजनं, ज्ञेयं प्राहुः उक्तवन्तः । पूर्वं औचित्यमेव व्यनक्ति-धर्माद्यपीडया धर्मादीनां पुरुषार्थानामबाधया । 'यदि तदनिष्टेभ्यो निवृत्तौ तदिष्टेषु च प्रवृत्तौ धर्मादयः-पुरुषार्था बाध्यन्ते, तदा न तन्निवृत्तिपरेण भाव्यं, किं तु पुरुषार्थाराधनपरेणैव, अतिदुर्लभत्वात्पुरुषार्थाराधनकालस्येति' ॥११४॥ तथा - .
तदासनाद्यभोगश्च तीर्थे तद्वित्तयोजनम् । ..
तद्विम्बन्याससंस्कार ऊर्ध्वदेहक्रिया पराः ॥११५॥ ___ 'तदासनाद्यभोगश्च'-गुरुवर्गस्यासनशयनभोजनपात्रादीनामभोगोऽपरिभोग: 'तीर्थे' -देवतायतनादौ तद्वित्तयोजनं' अलङ्कारादिगुरुवर्गद्रव्यनियोजनम्, अन्यथा तत्स्वयंग्रहे गुरुवर्गमरणाद्यनुमतिप्रसङ्गः स्यात् । तद्धिम्बन्याससंस्कारः तस्य गुरुवर्गस्य यो बिम्बन्यासः प्रतिबिम्बस्थापनारूपस्तस्य संस्कारो धूपपुष्पादिपूजारूपः, 'तत्कारितदेवतादेः पूजारूप इत्यन्ये ।' 'ऊर्ध्वदेहक्रिया'गुरुदेवपूजनादिमृतकार्यकरणरूपा परा-दर्शितादरा ॥११५॥ अथ देवपूजाविधिमाह -
पुष्पैश्च बलिना चैव, वस्त्रैः स्तोत्रैश्च शोभनै : ।
देवानां पूजनं ज्ञेयं, शौचश्रद्धासमन्वितम् ॥११६॥ पुष्पैः-जातिशतपत्रिकादिसम्भवैः, बलिना-पक्वानफलाद्युपहाररूपेण, वस्त्रैर्वसनैः स्तोत्रैः-स्तवनैः । चशब्दौ चैवशब्दश्च समुच्चयार्थाः । शोभरादरोपहितत्वेन सुन्दरैः देवानां-आराध्यतमानां पूजनं ज्ञेयम् । कीदृशमित्याह-शौचश्रद्धासमन्वतं-शौचेन शरीरवस्त्रद्रव्यव्यवहारशुद्धिरूपेण श्रद्धया च बहुमानेन समन्वितं युक्तमिति ॥११६॥ एतच्च -
अविशेषेण सर्वेषामधिमुक्तिवशेन वा ।
गृहिणां माननीया यत्, सर्वे देवा महात्मनाम् ॥११७॥ 'अविशेषेण'-साधारणवृत्त्या सर्वेषां-पारगतसुगतहरहरिहिरण्यगर्भादीनाम्, पक्षान्तरमाह-अधिमुक्तिवशेन वा-अथवा यस्य यत्र देवतायामतिशयेन श्रद्धा
१. तदनुवृत्तिपरेण-A.B.C:;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org