________________
१७३
योगबिन्दु सूत्र : ११०-१११-११२-११३-११४ अभीष्ट इति ॥११०॥
पूजनं चास्य विज्ञेयं, त्रिसन्ध्यं नमनक्रिया ।
तस्यानवसरेऽप्युच्चैश्चेतस्यारोपितस्य तु ॥१११॥ पूजनं च-पूजनं पुनः अस्य-गुरुवर्गस्य विज्ञेयं-अवगन्तव्यम्, किमित्याह त्रिसन्ध्यं-सन्ध्यात्रयाराधनेन, नमनक्रिया-प्रणामरूपा । यदि कथञ्चित्साक्षादसौ प्रणन्तुं न पार्यते तदा किं कृत्यमित्याह-तस्य- गुरुवर्गस्य अनवसरेऽपितथाविधप्रघट्टकवशात्- "किं पुनरवसर' इत्यपिशब्दार्थ: उच्चैः-अत्यर्थं, चेतसिमनसि, आरोपितस्य तु-पूर्ववद्गुरुवर्गस्य पूजनमिति ॥१११ ॥ तथा -
अभ्युत्थानादियोगश्च, तदन्ते निभृतासनम् ।
नामग्रहश्च नाऽस्थाने, नावर्णश्रवणं क्वचित् ॥ ११२॥ अभ्युत्थानादियोगो-ऽभ्युत्थानासनप्रदानस्थितपर्युपासनादिविनयव्यापाररूपः, च: समुच्चये, तदन्ते-गुरुवर्गान्ते निभृतासनं अप्रगल्भतयावस्थानम्, नामग्रहश्च नामोच्चारणरूप: न-नैव 'अस्थाने'-'मूत्रपुरीषोत्सर्गादिस्थानरूपे । न-नैव अवर्णश्रवणं-अवर्णवादाकर्णनम् क्वचित् परपक्षमध्यावस्थानेऽपीति ॥११२ ॥ तथा
साराणां च यथाशक्ति, वस्त्रादीनां निवेदनम् ।
परलोकक्रियाणां च, कारणं तेन सर्वदा ॥११३॥ साराणां च उत्कृष्टानाम् यथाशक्ति-यस्य यावती शक्तिस्तया वस्त्रादीनां वसनपानभोजनालङ्कारादीनाम् निवेदनं-समर्पणम् तथा परलोकक्रियाणां च'देवातिथिदीनानाथप्रतिपत्ति'प्रभृतीनाम् कारणं-विधापनम् । तेन गुरुवर्गेण सर्वदा सर्वकालम् ॥११३॥ तथा -
त्यागश्च तदनिष्टानां, तदिष्टेषु प्रवर्तनम् ।
औचित्येन त्विदं ज्ञेयं,प्राहुर्धर्माद्यपीडया ॥११४॥ 'त्यागश्च'-प्रोज्झनम् 'तदनिष्टानां'-गुरुवर्गासंमतानां व्यवहाराणाम्, 'तदिष्टेषु'- गुरुवर्गप्रियेषु व्यवहारेष्वेव प्रवर्तनम्', -अत्रापवादमाह औचित्येन
१. मूत्रपुरीषोज्झनादिस्थानरूपे-A.; २. प्रभूतानाम्-B:;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org