________________
१७२ योगबिन्दु सूत्र : १०७-१०८-१०९-११० ऽधिकारनिवृतौ सत्यामित्यर्थः एकस्य-पुंसः सर्वतद्भावः'-सर्वेषु पुरुषेष्वधिकारनिवृत्तिभावः बलाद्-एकस्वभावत्वसामर्थ्यात् आपद्यते-प्राप्नोति सदासर्वकालम्, अन्यथा सर्वत्रापि जगति तस्या एकस्वभावत्वाऽयोगात् ॥१०७॥ दूषणान्तरमाह -
तुल्य एव तथा सर्गः, सर्वेषां सम्प्रसज्यते । .
ब्रह्मादिस्तम्बपर्यन्त एवं मुक्तिः ससाधना ॥ १०८॥ 'तुल्य एव'-सदृश एव 'तथा' इति दूषणान्तरार्थ: 'सर्ग:'- स्वर्गादिसृष्टिरूपः सर्वेषां'-सृष्टिमताम् सम्प्रसज्यत-आपद्यते । ब्रह्मादि'-ब्रह्मलोकप्रभृतिकः, स्तम्बपर्यन्तो'- नारकतिर्यग्रूपलोकपर्यवसान: सांख्यसमयप्रसिद्धः । तथा च ते पठन्ति । 'उर्ध्वं सत्त्वविशालस्तमोविशालश्च मूलतः सर्गः ॥ मध्ये रजोविशालो, ब्रह्मादिस्तम्बपर्यन्तः ॥१॥' एवं-सर्गवत् मुक्ति:- मोक्षः सर्वपुरुषाणां ससाधना यमनियमानुष्ठानसहिता तुल्या सम्पद्यते ॥१०८॥ इत्थं योगमाहात्म्यं तद्रापतां चाभिधाय साम्प्रतं प्रागुद्दिष्टपूर्वसेवाक्रममाह
पूर्वसेवा तु तन्त्रज्ञैर्गुरुदेवादिपूजनम् ।
सदाचारस्तपो 'मुक्तयद्वेषश्चेह प्रकीर्तिता ॥ १०९॥ 'पूर्वसेवा तु'-योगप्रासादप्रथमभूमिकारूपा पुनः तन्त्रज्ञैः'-सम्यगधिगतशास्त्रैः 'प्रकीर्तिता' इत्युत्तरेण योगः । कीदृशीत्याह 'गुरुदेवादिपूजनं' वक्ष्यमाणरूपं १, तथा सदाचारः २, तपो ३, मुक्त्यद्वेषश्च ४, इह-योगचिन्तायां, प्रकीर्तिता-निरूपिता ॥१०९॥ एतदेव क्रमेण व्याचष्टे -
माता पिता कलाचार्य एतेषां ज्ञातयस्तथा ।
वृद्धा धर्मोपदेष्टारो, गुरुवर्गः सतां मतः ॥ ११०॥ माता-जननी पिता-जनकः कलाचार्यो-लिप्यादिकलाशिक्षणोपाध्यायः एतेषां मातृप्रभृतीनां, ज्ञातयो- भ्रातृभगिन्यादयः 'तथा' इति समुच्चये 'वृद्धाः' श्रुतवयोवृद्धलक्षणाः कीदृशा इत्याह 'धर्मोपदेष्टारः' धर्मोपदेशप्रवर्तकाः । किमित्याह 'गुरुवर्ग:'-'गौरव्यलोकसमुदायरूपः 'सतां'-शिष्टानां 'मतः'
१. मुक्त्यद्वेषतेह-B.C.; २. गौरववल्लोकसमुदायरूप:-B.C:;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org