________________
योगबिन्दु सूत्र : १०४-१०५-१०६-१०७ १७१ तत:-कुशलधीप्राप्तेः तदात्वे-कुशलधीप्राप्तिकाले कल्याणं-श्रेय:समागमरूपम् आयत्यांतु-आगामिनि काले पुन:कुशलबुद्धिप्रभावोपात्तपुण्यपरिपाकवशेन विशेषतो विशेषेण । एतदेव प्रतिवस्तूपमया दर्शयति 'मन्त्राद्यपि'मन्त्रमण्यौषध्यादि 'किं पुनः 'प्राकृतो योगः' सदा-सर्वकालम् 'चारु'सुन्दरस्वभावम् सर्वावस्थाहितं'- सर्वावस्थासु व्यापारणाऽव्यापारणरूपासु हितं कल्याणावहम् मतं-इष्टं मतिमतामिति ॥ १०४॥ इत्थं गोपेन्द्रमतमनूद्य वस्तुस्थितिं प्रतिपादयन्नाह -
उभयोस्तत्स्वभावत्वात्तदावर्तनियोगतः ।
युज्यते सर्वमेवैतन्नान्यथेति मनीषिणः ॥ १०५॥ उभयो:-पुरुषप्रकृत्योः तत्स्वभावत्वात्-प्रकृते या॑वृत्त्यधिकारस्वभावत्वात् तद्व्यावृत्त्यधिकारत्वे च पुरुषस्य कुशलबुद्धिप्रापकस्वभावत्वात् 'तदावतनियोगत:'-तस्य चरमावर्तस्य नियोगतः सामर्थ्यात् युज्यते-घटते सर्वमेवैतत् कुशलधीप्राप्त्यादि नान्यथा-उभयोस्तत्स्वभावत्वाभावे, इत्येतत्प्राहुः मनीषिणोमतिमन्तः ॥ १०५॥ तथा- ..
अत्राप्येतद्विचित्रायाः, प्रकृतेर्युज्यते परम् ।
इत्थमावर्तभेदेन, यदि सम्यग्निरूप्यते ॥ १०६॥ . अत्राप्युभयोस्तत्स्वभावत्वे, 'किं पुनस्तदभावे न घटत' इत्यपिशब्दार्थः, एतनिवृत्ताधिकारत्वम् विचित्रायास्तत्सामग्रीबलेन नानारूपायाः प्रकृतेःकर्मरूपायाः युज्यते परं-केवलम् । इत्थमुक्तप्रकारेण 'आवर्तभेदेन'चरमावर्तरूपेण, यदि-चेत् सम्यग्यथावत् 'निरूप्यते'-विमृश्यत इति ॥१०६ ॥ अत्रैव विपक्षे बाधामाह - |
अन्यथैकस्वभावत्वादधिकारनिवृत्तितः ।
एकस्य सर्वतद्भावे, बलादापद्यते सदा ॥ १०७॥ अन्यथा-प्रकृतिवैचित्र्याभावे एकस्वभावत्वाद्' एकः कथञ्चिदविचलितः स्वभावो यस्याः सा तथा, तद्भावस्तत्त्वं तस्मात् 'अधिकारनिवृत्तितो'
२. प्रकृतो-A.B.C.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org